________________
अध्याय 12
जिनाय जिनरागाय नमोऽनेकान्तशालिने । अनन्तचित्कलास्फोट स्पृष्टस्पष्टात्मत्तेजसे ॥1 ॥ अनेकोऽप्यतिमन्ये त्वं ज्ञानमेकमनाकुलम् । ज्ञानमेव भवन्भासि साक्षात् सर्वत्र सर्वदा ॥2 ॥
अतएव वियत्काली तद्गता द्रव्यपर्ययाः ज्ञानस्य ज्ञानतामीश न प्रमाष्टुं तदेशते ॥3 ॥ स्वरूपपररूपाभ्यां त्वं भवन् अभवन्नपि ।
भावाभावो विदन् साक्षात् सर्वज्ञ इति गीयसे 114 ।।
इदमेवमिति छिन्दनिखिलार्थाननन्तशः । स्वयमेकमनन्तत्वं ज्ञानं भूत्वा विवर्तसे ॥5॥
अखण्डमहिमानन्तविकल्पोल्लास मांसलः ।
अनाकुलः प्रभो भासि शुद्धज्ञान महानिधिः ॥ ॥ अक्रमात् क्रममाक्रम्य कर्षन्त्यपि परात्मनोः । अनन्ताबोधधारेयं क्रमेण तव कृष्यते ॥7 ॥ भावास्सहभुवोऽनन्ता भान्ति क्रमभुवसु ते । एक एव तथाऽपि त्वं भावो भावान्तरंतु न ॥8॥