________________
श्रीमद्- हेमचन्द्रसूरिविरचितं
छन्दोऽनुशासनम् ।
अथ प्रथमोऽध्यायः ।
अहँ । शब्दानुशासनविरचनानन्तरं तत्फलभूतं "काव्यमनुशिष्य तदङ्गभूतं छन्दोऽनुशासनमारिप्समानः शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकमुपक्रमते - वाचं ध्यात्वाऽऽर्हतीं सिद्धशब्द - काव्यानुशासनः । काव्योपयोगिनां वक्ष्ये छन्दसामनुशासनम् ॥ १ ॥
अर्हद्भिः कृता, ""कृते' [ सि. है . ६.३.१९२ ] ईत्यणि, आर्हती वाक् । द्वादशाङ्गं "गणिपिटकम् । यद्यपि द्वादशाङ्गी सूत्रतो गणधरैर्निर्ममे, तथापि तदर्थस्य अर्हदुपदिष्टत्वादार्हतीति उच्यते । यदाह -
'अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं' ॥ १.१ ॥
इति । सूत्रमपि चाचिन्त्यात्प्रभावादेव गणधरैर्ग्रथ्यते इति आर्हत्येव वाग् इति न विरोधः । सिद्धं प्रतिष्ठां प्राप्तं शब्दानां नामाख्यातादिभेदानां प्रकृतिप्रत्ययादिविभागेन, काव्यस्य च ”गुणालङ्कारादिविवेचैनेन, पूर्वाचार्यशासनस्यानु पश्चात् शासनं संदर्भो यस्य
सिद्धशब्द- काव्यानुशासनः । ध्यानं प्रणिधानम् । तच्चेह मानसो नमस्कारः । काव्योपयोगिनामिति गद्यकाव्ये न छन्दसामुपयोग" इत्यर्थात् पद्यं काव्यमिह गृह्यते । उपयोगः साहायकं " वृत्तसंशयच्छेदादिना । यदाह -
''छन्दोविचितेर्वृत्तसंशयच्छेदः ॥ १.२ ॥
इदमभिधेयप्रयोजनम् । काव्योपयोगाभावाच्च न वैदिकानि छन्दाँसीह लक्षयिष्यन्ते । छन्दसामिति कर्मणि षष्ठी । " चन्दनादाह्लादनात् छन्दांसि वर्णमात्रानियमितानि
[ अथ ] छन्दोऽनुशासनपर्यायाः कतिचिल्लिख्यन्ते ।
1 ) काव्यमिति – अलंकारशास्त्रम् । 2 ) कृत इति - तद्धितसूत्रम् । 3 ) गणिपिटकमिति - पिटकमिव पिटकम् । सर्वव्यापकत्वाद् गणीनां गणिनां वा पिटकम् । 4 ) गुणालंकारादीति - माधुर्यौजः प्रसादास्त्रयो गुणाः, उपमादयो अलंकाराः । 5 ) उपयोग इति - कार्यमित्यर्थः । 6 ) वृत्तसंशयेति - मात्रार्यासंशयच्छे. दादिः । भादिशब्दाद्यतिर्गृह्यते । 7 ) छन्दोविचितेरिति - छन्दांसि विचीयन्ते समवेक्ष्यन्तेऽत्र शास्त्रे तानि श्यादिरूपवृत्तानि । 8 ) चन्दनाह्लादनाच्छन्दांसीति - उणादिकोsस्प्रत्ययः । पृषोदरादित्त्वाच्छः ।
।
१ आरिप्समाण: A. २ कृत्यणि अर्हती A. ३ वाचि० ACN. ४ प्रतिष्टां AB. ५ विरचनेन A. ६ सहायक A. ७ छन्दांसि to °यन्ते repeated in A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org