SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री भक्तामर महा मण्डल पूजा मङ्गलाचरण मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी । मङ्गलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मङ्गलम् ॥१॥ नमः स्यादर्हद्भ्यो, विततगुणराड्भ्यस्त्रिभुवने । नमः स्यात् सिद्धेभ्यो, विगतगुणवदभ्यः सविनयम् ।। नमो ह्याचार्येभ्यः, सुरगुरुनिकारो भवति यः । उपाघ्यायेभ्योऽथ, प्रवरमतिधृद्भ्योऽस्तु च नमः ॥२॥ नमः स्यात् साधुभ्यो, जगदुदधिनीभ्यः सुरुचितः । इदं तत्त्वं मन्त्र, पठति शुभकार्ये यदि जनः ।। असारे संसारे, तव पदयुग-ध्यान-निरतः । सुसिद्धः सम्पन्नः स हि भवति दीर्घायुररुजः ।।३।। अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धीश्वराः । माचार्या जिनशासनोन्नतिकराः, पूच्या उपाध्यायकाः ।। श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः । पञ्च ते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु बो मङ्गलम् ॥४॥ १-अनुष्टुप् , । २, ३-शिखरिणी । शार्दूलविक्रीडित ।
SR No.090095
Book TitleBhaktamara Mahamandal Pooja
Original Sutra AuthorSomsen Acharya
AuthorMohanlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages107
LanguageHindi, English
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy