________________
३४
आत्मानुशासनम् [श्लो० ३३भर्तारः कुलपर्वता इव भुवो मोहं विहाय स्वयं रत्नानां निधयः पयोधय इव व्यावृत्तवित्तस्पहाः । स्पृष्टाः कैरपि नो नभो विभुतया विश्वस्य विश्रान्तये सन्त्यद्यापि चिरन्तनान्तिकचराः सन्तः कियन्तोऽप्यमी ॥३३॥
अनुष्ठातारो आसंभाव्यः, पूर्वमेव तेषां वार्तामात्रेण श्रूयमाणत्वात् इति वदन्तं प्रत्याह-- भर्तार इत्यादि । भर्तारो अभ्युद्धर्तारः पोषकाः वा। कस्याः भुव: पृथिव्याः । कुलपर्वता इव । इवशब्दो यथार्थः । यथा कुलपर्वता षट् हिमवदादयः । किं कृत्वा । मोहं विहाय निर्मोहाः सन्तः । रत्नानां निधय: पयोधयः इव-- यथा पयोधयः समुद्राः मुक्ताफलादिरत्नानां निधयः आश्रया: तथैव ते! सम्यग्दर्शनादिरत्नानाम् । कथंभूताः सन्तस्ते निधयः । व्यावृत्तवित्तस्पृहा व्यावृत्ता विनप्टा वित्तस्य द्रव्यस्य स्पृहा वाञ्छा येषाम् । तथा स्पृष्टा: कैरपि नो- स्पृष्टा लिप्ताः संश्लिष्टाः । कैरपि रागादिमल: । नो नैव । नभ इव । इव-शब्दोऽत्र द्रष्टव्यः । यथा नभो निर्मलं तथा तेऽपि निर्मला: इत्यर्थः तथा विभुतया परममहत्त्वेन । नभ इव विश्वस्त्र जगतो विश्रान्तये क्लेशापनोदाय अवस्थानाय च । एवंविधगुणोपेताश्चिरन्तनानां महामुनीनां अन्तिकचरा: शिष्याः सन्त: सन्मार्गानुष्ठायिनः। अद्यापि इदानीं तेन ( इदानींतनेन ) कालेन । कियन्तोऽपि प्रतिनियताः । अमी अपि दृश्यमानाः ।।३३।।
प्राप्ति । उसी प्रकार पूर्वापर विचार करने के पश्चात वैसा प्रयत्न करते हुए जो इष्ट अथवा अनिष्ट फल प्राप्त होता है उसमें पुरुषार्थकी प्रधानता और दैवकी गौणता समझनी चाहिये । जैसे- व्यापार आदि कार्य करके धनका प्राप्त करना अथवा विषभक्षण आदिके द्वारा मरणका प्राप्त करना ॥ ३२॥ जो स्वयं मोहको छोडकर कुलपर्वतोंके समान पृथिवीका उद्धार करनेवाले हैं, जो समुद्रोंके समान स्वयं धनकी इच्छासे रहित होकर रत्नोंके स्वामी हैं, तथा जो आकाशके समान व्यापक होनेसे किन्हींके द्वारा स्पृष्ट न होकर विश्वकी विश्रान्तिके कारण हैं; ऐसे अपूर्व गणोंके धारक पुरातन मनियोंके निकटमें रहनेवाले वे कितने ही साधु आज भी विद्यमान हैं । विशेषार्थ- यहां यह आशंका हो सकती थी कि दैवके ऊपर विश्वास रखकर व्रतोंका आचरण कलेवाले
1 सत