________________
६०
सनातन जैनग्रंथमालायां-
त्यत्र कर्तुरभिन्नं कर्म संप्रतीयत एव। न हि प्रदीपात्मा प्रदीपाद्भिन्न एव प्रदीपस्याप्रदीपत्वप्रसंगात् घटवत् । प्रदीपे प्रदीपात्मनो भिन्नस्यापि समवायात् प्रदीपत्वसिद्धिरितिचेत् न अप्रदीपेऽपि घटादौ तत्समवाय प्रसंगात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत् ? स प्रत्यासत्तिविशेषोऽत्र कोडन्यत्र कथंचित्तादात्म्यात् ? ततः प्रदीपादभिन्न एव प्रदीपात्मा कर्मेति सिद्धमभिन्नकर्तृकं कर्म । तथा च ज्ञानात्मात्मानमात्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसायात्मकं ज्ञानं न स्यात् ।
स्यान्मतं - अर्थज्ञानं ज्ञानांतरवेद्यं प्रमेयत्वात् घटादिवदित्यनुमानं स्वार्थव्यवसायात्मकत्वप्रतीतेर्बा - धकमिति तदपि फल्गुप्रायं महेश्वरार्थज्ञानेन हेतोर्व्यभिचारात् । तस्य ज्ञानांतरावेद्यत्वेऽपि प्रमेयत्वात् । यदि पुनरीश्वरार्थज्ञानमपि ज्ञानांतर प्रत्यक्षं - असंवेद्यत्वात् इति मितिस्तदा तदप्यर्थज्ञानज्ञानमीश्वरस्य प्रत्यक्षमप्रत्यक्षं वा ? यदि प्रत्यक्षं तदा स्वतो ज्ञानांतराद्वा । स्वतश्चेत् प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु किं विज्ञानांतरेण ? | यदि तु ज्ञानांतरात्प्रत्यक्षं तदपीष्यते तदा तदपि ज्ञानांतरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्षं वेति स एव पर्यनुयोगो ऽनवस्थानं च दुःशक्यं परिहर्तुं । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षं स्वयमप्रत्यक्षेण ज्ञानांतरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मांतरज्ञानेनापि कस्यचित्साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्करणं संगच्छेत ततः सर्वस्य सर्वार्थवेदित्वासिद्धः - ईश्वरानीश्वरविभागाभावो भूयते । यदा चार्थज्ञानमपि प्रथम मीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सकलोऽर्थः प्रत्यक्षं कथं समर्थ्येत तेन सकलप्राणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिज्ज्ञत्वं सर्वस्य वा सर्वज्ञत्वमनुज्ञातव्यं न्यायवलायातत्वात् । तथाभ्यनुज्ञाने वा नैयायिकस्य नैयायिकत्वविरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षात्कुरुते नित्यैकरूपत्वात्, क्रमभाव्यनेकानित्यज्ञानेोपगमे महेश्वरस्य सकृत्सर्वार्थसाक्षात्करणविधानात् सर्वज्ञत्वाव्यवस्थितेरिति मतं तदा कथमनेनैवाकांतिको हेतुर्न स्यात् । स्यान्मतिरेषा युष्माकमस्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानांतवेद्यत्वं प्रमेयत्वेन हेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः तस्यास्मदादिज्ञानाद्विशिष्टत्वात् । न हि विशिष्टे दृष्टं धर्मविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते इति सापि न परीक्षासहा ज्ञानांतरस्यापि प्रज्ञानेन वेद्यत्वेऽनवस्थानुषंगात् । तस्य ज्ञानांतरण वेद्यत्वे तेनैव हेतोर्व्यभिचारः । न च तदप्रमेयमंत्र सर्वस्येति वक्तुं शक्यं प्रतिपत्तुः प्रमाणवलात्तदूव्यवस्थानविरोधात् । सर्वज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् । ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानांतरप्रत्यक्षं प्रमेयत्वाद्धेतोः साधयितुं शक्यं, ज्ञानस्य स्वार्थव्यवसायात्मनः प्रत्यक्षसिद्धत्वाच्च । प्रत्यक्षवाधितपक्षतया हेतोः कालात्ययापदिष्टत्वप्रसंगाच्च । एतेनार्थज्ञानेन ज्ञानांतरवेद्ये साध्ये कालत्रयत्रिलोकवर्तिपुरुषपरिषत्संप्रयुक्तसकलहेतुनिकरस्य कालात्ययापदिष्टत्वं व्यख्यातं । तदनेन यदुक्तमेकात्मसमवेतानंतर विज्ञानग्राह्यमर्थज्ञानमिति तत्समुत्सारितं ।
योऽप्याह न स्वार्थव्यवसायात्मकं ज्ञानं परोक्षत्वात् अर्थस्यैव प्रत्यक्षत्वात् । अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः । स हि बहिर्देशसंबद्ध: प्रत्यक्षमनुभूयते । ज्ञाते त्वर्थे अनुमानादवगच्छति बुद्धिरिति सावरभाष्ये श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्षत्वे कर्मत्वप्रसंगात् ज्ञानांतरस्य करणस्यावश्यं परिकल्पनीयत्वात् । तस्य चाप्रत्यक्षत्वे प्रथमे कोऽपरितोष: ? । प्रत्यक्षत्वे तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्य विज्ञानस्य परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञानं प्रत्यक्षं परीक्षकैरनुमंतव्यमिति सोऽपि न यथार्थमीमांसकतामनुसर्तुमुत्सहते ज्ञानस्याप्रत्यक्षत्वे सर्वार्थस्य प्रत्यक्षत्वविरोधात् । संतानांतरज्ञानेनापि सर्वस्यार्थस्य प्रत्यक्षत्वप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थप्रत्यक्षः स्यात् ।