________________
प्रमाणपरीक्षा।
५९ इत्यनिवृत्तः पर्यनुयोगः-भनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेदः इत्युभयपक्षालंबनमपि अनेनैवापास्तं पक्षद्वयनिक्षिप्तदोषानुषंगात् पक्षांतराऽसंभवाचेति सोऽपि न न्यायकुशल: प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यवसायित्वेन प्रतीतिः सिद्धा । नचेयं मिथ्या बाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत् का पुनःक्रिया ? किमुत्पत्तिप्तिर्वा ? यद्युत्पत्तिः सा स्वात्मनि विरुध्यता । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयति इति ।
नेकं स्वस्मात्मजायते इति समंतभद्रस्वामिभिरभिधानात् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा तदात्मनैव ज्ञानस्य स्वकारणकलापादुत्पादात् । प्रकाशात्मनैव प्रकाशस्य प्रदीपादेः । न हि स्वकारणसामिग्रीतः प्रदीपादिप्रकाशः समुपजायमानः स्वप्रकाशात्मना नोत्पद्यत इति प्रातीतिकं तत्स्वरूपप्रकाशेन प्रकाशांतरापेक्षाप्रसंगात् । नचायं प्रदीपाद्यालोकः कलशादिज्ञानं स्वरूपज्ञानं च चक्षुषोजनयतः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशत्वं तच कलशादाविव स्वात्मन्यपि दीपादेविद्यत एवेति सिद्धा स्वात्मनि प्रकाशनक्रिया । तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुध्यतां । एतेन 'ज्ञानं न स्वप्रकाशकं, अर्थप्रकाशकत्वादित्यनुमानमपास्तं प्रदीपादिना हेतोरनेकांतात् । प्रदीपादिः-उपचारात प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाऽप्रकाशकत्वात् साधनशून्यो दृष्टांतः ज्ञानस्यैव परमार्थतोऽर्थप्रकाशत्वोपपत्तेः । ततो 'ज्ञानं स्वप्रकाशकं, अर्थप्रकाशकन्वात् यत्तु न स्वप्रकाशकं तन्नार्थप्रकाशकं दृष्टं यथा कुड्यादिकं । अर्थप्रकाशकं च ज्ञानं तस्मात्स्वप्रकाशकमिति केवलव्यतिरेक्यनुमान मविनाभावनियमनिश्चयलक्षणाद्धेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादिभिः परमार्थतोऽर्थप्रकाशकत्वासिद्धेस्तेन साधनस्यानेकांतिकतानुपपत्तेः । कुड्यादेरपि स्वाविनाभाविपदार्थांतरप्रकाशकत्वाद्भूमादिवत् साधनाव्यतिरेको दृष्टांत इत्यपि समुत्सारितमनेन तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः अन्यथा तज्जनितवि. ज्ञानवैयापत्तेः । यत्पुर्ज्ञानमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषा नुषंगो बाधक इति मतं तदपि न सुदरतरं तथाप्रतीतिसिद्धत्वात् । जात्यतरत्वादाकारवतोभदाभेदं प्रत्यनेकांतात् । कर्मकरणाकारयोर्ज्ञानात् कथंचिदभेदः कथंचिद्भेदः इति नैकांतेन भेदाभेदपक्षोपक्षिप्तदोषोपानपातः स्याद्वादिनां सलक्ष्यते । नच कथंचिदित्यंधपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिदभेदशब्देनाभिधानात् । कर्मकरणात्मना च भेद इति कथंचिद्भदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तद. भेद इति ज्ञानभेदाभेदस्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः । कर्मकरणाकारतया च भेद इति कर्मकरणाकारावेव भेदस्य द्रव्यव्यतिरिक्तस्याकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो येन च भेदस्ती ज्ञानाकिमभिन्नौ भिन्नौ वा इति न पर्यनुयोगस्यावकाशोऽस्ति ययाऽनवस्था महीयसी सप्र. सज्यत । नच भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति करणस्य भिन्नकर्तृकस्यापि दर्शनात भिन्नकर्तृकरणवत् । यथैव हि देवदत्तः परशुना छिनत्ति काष्टमित्यत्र देवदत्तात्कर्तुर्भिन्नं परशुलक्षणं करणमुपलभ्यते । तथाग्निर्दहति दहनात्मनेत्यत्राग्नेः कर्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एवं दहनात्माप्युष्णलक्षणः स चाग्नेर्गुणिनो भिन्न एवेति न मंतव्यं सर्वथा तयोविरोधे गुणगुणीभावविरोधात सह्यविध्यवत् । गुणिनि गुणस्य समवायात् तयोस्तद्भाव इत्यपि न सत्यं समवायस्य कथंचिदविश्वग्भावात् अन्यस्य विचारासहत्वात् । समित्येकीभावेनावायनमवगमनं हि समवायः तच्च समवायनं कर्मस्थं समवेयमानत्वं समवायितादात्म्यं प्रतीयते, कर्तृस्थं पुनः समवायनं समवायकत्वं प्रमातुस्तादात्म्यन समवायिनाहिकत्वं न चान्या गतिरस्ति क्रियायाः कर्तृकर्मस्थतयैव प्रतिपादनात् तत्र
कर्मस्था क्रिया कर्मणोऽनन्या कर्तृस्था कर्तुग्नन्या इति वचनात् । ततो नाभिन्नकर्तृकं करणमप्रसिद्धं । नापि कर्म तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्तृकस्यापि प्रतीतेः । यथैव हि कटं करोतीत्यत्र कर्तर्भिन्न कर्मानुमन्यते । तथा प्रदीपः प्रकाशयत्यात्मानमि