SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायां आश्रयायिभावान स्वातंत्र्यं समव यिनां । इत्ययक्तः स संबंधो न युक्तः समवायिभिः ॥ ६४ ॥ वृत्तिः-स्वातंत्र्यं स्वप्रधानता तेषां नास्ति। कुतः ? आश्रयाः स्वारंभकावयवा आश्रयी अवयवी कार्यादिस्तयोर्भावस्तस्मात् । यस्मात् आश्रयमंतरेण नाश्रयी वर्तते नायिणमंतरेणाश्रयः परस्परप्रतिबंधात् । तस्मान्न कालादिभेदेन वृत्तिस्तेषां समवायिनां कार्यकारणानामिाते चेदत्रोत्तरमाह । सोऽयुक्तः संबंधः समवायिभिः सह न युक्तः, समवायसंबंधः परैरिष्टः कार्यकारणादिभिः सह स न घटते विचार्यमाणायोगात् । अनवस्थादिदोषादिति ॥ ६४ ॥ तदेव विघटयन्नाह__ अष्टशती-कार्यकारणादीनां परस्परं प्रतिबंधात् कुतः स्वातंत्र्यं यतो देशकालादिभेदेन वृत्तिः ? इति चेत् समवायस्य समवायांतरेणं वृत्तौ अनवस्थाप्रसंगात् । स्वत एव वृतौ द्रव्यादेस्ताथापत्तेरसंबद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत यतः पृथक सिद्धिर्न स्यात् ॥ ६४ ॥--- सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अंतरेणाश्रयं न स्यानाशोत्पादिषु को विधिः ॥ ६५ ॥ वृत्तिः-सामान्यं भिन्नेष्वभिन्नकारणं । समवाय इहेदं प्रत्ययलक्षणं । एकैकत्र एकस्मिन्नवयवे व्यक्ती वा । समाप्तितः समाप्तेर्व्यवस्थितत्वादित्यर्थः । आश्रयमंतरेण यस्मात्तयोरवस्थानं नास्ति । एवं सति नाशोत्पादा विद्यते येषां तेषु नाशोत्पादिषु खण्डमुण्डघटपटादिषु को विधिः कः क्रमः ? किं तु न कश्चिदीप स्यात् ।। पुनरपि संबंधस्य दूषणमाह __ अष्टशती-प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवाययोरसंभवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः-उत्पित्सुप्रदेशे प्राङ् नासात नान्यतो याति, स्वयमेव पश्चाद्भवति स्वाश्रयविनाशे च नश्यति प्रत्येकं परिसमाप्तं चेति व्याहतमेतत् ॥ ६५ ॥ सर्वथाऽनभिसंबंधः सामान्यसमवाययोः । . ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पषत् ॥ ६६ ॥ वृत्तिः-सामान्यसमवाययोः परस्परेण सर्वथा सर्वप्रकारेणानभिसंबंधोऽसंयोगोऽतस्ताभ्यां सामान्यसमवायाभ्यां अर्थो गुणगुण्यादिर्न संबद्धो न लग्नाऽतस्तानि त्रीण्यपि सामान्यसमवायार्थरूपाणि खपुष्पसमानानि॥ ____ सत्यमेवैतत् समवायादीनां दोषः । अस्माकं पुनः परमाणूनामेकांतेनानन्यत्वमिच्छतां न दोष इत्यत्र दूषणमाह अष्टशती-सामान्यसमवाययोः परस्परतः स्वसंबंधासंभवात् ताम्यामर्थो न बद्धः, ततस्त्रीण्यपि नात्मानं विभृयुः कूर्मरोमादिवत् ॥ ६६ ॥ - अनन्यतैकांतेऽणूनां संघातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रांतिरेव सा ॥ ६७॥ बृत्ति:-परमाणूनां द्वितीयविभागरहितानां संघातेऽपि प्रचयेऽपि असंहतत्वं पृथक्त्वं स्यात् विभागवत्, यथा घटपटयोः। नान्यताऽनन्यता सैवैकांतस्तस्मिन् परमाणूनां । अन्यथा स्वरूपेण परिणामायोगात् ,एकदेशेन सवात्मना वा तथा वृत्तिविरोधात् । सहस्राणुमात्रपिंडप्रसंगादणोः । तस्मात्प्रविरलत्वं प्रविकलत्वं, अणूनां ततो धारणाकर्षणादयो न स्युः । भूतानां पृथिव्यादीनां चतुर्णा भावश्चतुष्कं सा भ्रांतिः स्यात्-भूतचतुष्टयं भ्रांतं स्यादित्यर्थः॥ पानानुलभ्यते पागेयं लिखितपुस्तके प्रेविकलत्वस्थानतिरत्वत्वनियोज्यः प्रविलरत्वनावकलस्पयोः समानार्थकत्वादिति।
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy