________________
आप्तमीमांसा।
दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्थित्युत्पत्तिव्ययात्मकं सुधटमेतदनेकांते जैनमतै इति स्थितम् ॥ ६॥
अष्ठसती-लोकोत्तरदृष्टांतेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति । दधिपयोगोरसवतानां क्षीरदध्युभयवर्जनातू क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति । तस्मात्तत्त्वं त्रयात्मकं ॥ ६॥
इति आप्तमीमांसाभाष्ये तृतीयःपरिच्छेदः ।
वृत्ति-द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशैषिकमतमाशङ्कय दूषयितुक म: प्राह
कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च ।
सामान्यतद्वदन्यत्वं चैकांतेन यदीप्यते ॥६१॥ वृत्तिः-कार्य घटादिरूपं कारणं मृत्पिण्डादिकं तयोर्नानात्वं भेद इष्यते चेत् ? गुणो रूपादिर्गुणी द्रव्धं तयोरपि यद्यन्यतेष्यते सर्वथा भेद इष्यते ? सामान्यं बुद्धयभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत्-व्यक्तयः, तयोश्च यद्यन्यतेष्यते सर्वथैकांतेन? ॥६१ ॥
तदानीं किं स्यादत आहअष्टशवी-अवयवगुणसामान्यतद्वतो व्यतिरेकैकांतमाशंक्य प्रतिविधत्ते ॥ ६१ ॥
एकस्यानेकवृत्तिन भागाभावादहूनि वा। . भागित्वाद्वाऽस्य नैकत्वं दोषां वृत्तेरनाईते ॥६२॥ वृतिः--एकस्यावयव्यादेः कार्यस्य घटादेरनेकेषु स्वारंभकावयवेषु वृत्तिर्वर्तनं सा न स्यात्। कुतः ? भागाभावात् निरवयवत्वात् । अवयविनो अर्थे वर्तन्ते अवयवबहुत्वं स्यादनिष्ट चैतत् । यथास्य भागाः परि कल्प्यंते, एवं सति नैकत्वमस्य भागित्वात् । तस्मादनार्हते मते वृत्तिविकल्पस्य सर्वात्मनैकदेशन दोष एव । आर्हते पुनर्मते सर्वे युक्तमनेकांतात् ॥ ६२ ॥
पुनरपि भेदपक्षे दूषणमाह-- __ अष्टशती-एकमनेकत्र वर्तमान प्रत्यधिकरणं । न तावदेकदेशेन निष्प्रदेशत्वात् । नापि सर्वात्मना अवयव्यादिबहुत्वप्रसंगात् । अथापि कथंचित्प्रदेशवत्त्वं तत्रापि वृत्तिविकल्पोऽनवस्था च । तदेकत्वमेव न स्यात् । नायं प्रसंगो ऽनेकांते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् ॥ १२॥ ..
देशकालविशेषेऽपि स्यात्तिर्युतसिद्धवत् ।
समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६ ॥ __वृत्तिः-देशः क्षेत्रं कालः समयादिकः तयोर्विशेषो भेदस्तस्मिन्नपि तयोरवयवावयविनोर्या वृत्तिर्वर्तनं स्यात् युतसिद्धानामिव पृथग्भिन्नानामिव युतसिद्धवत् घटपटादिवत् इत्यर्थः । अन्यच्च समानदेशता न स्यात् तयोरवयवावयविनोरेकस्मिन्नवस्थानं न स्यात् मूर्तिमत्त्वात् यथा खरकरभयोः॥ ६३ ॥
पुनरपि भेदवादिनं प्रति दूषणमाह-- .. अष्टशती-तस्मादंगांग्यादेरत्यंतभेदाद्देशकालविशेषेणापि वृत्तिः प्रसज्येत । घटवृक्षवद्धर्णादिभिरनैकांतिकत्वमित्ययुक्तं तद् व्यतिरेकैकांतानभ्युपगमात् । अवयवावयविनोः समानदेशवृत्तिर्न भवेत् मूर्तिमत्वात् खरकरभवत् ॥ ६३ ॥