SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४४ आवश्यक सूत्रस्य मं=भवसम्बन्धि बन्धनं, तन्निबन्धनं दुःखं वा गालयति = नाशयतीति यद्वा मन्यते = प्राप्यते स्वर्गो मोक्षो वाऽनेनेति मङ्गः धर्मः तं लाति = गृह्णातीति मङ्गलः= श्रुतचारित्रधर्मधारकस्तम् । “देवयं” देवतैव दैवतं धर्मदेवमित्यर्थः । 'चेइयं ' चैत्यम्, चेतनं 'चित्तिः = सम्यग्ज्ञानम्, तदेव चैत्यम्" । चैत्यशब्दस्य ज्ञानार्थकत्वमुक्तं बोधप्राभृते कुन्दकुन्दस्वामिनाऽपि — 1 बुद्धं जं बोहतो, अप्पाणं वेइयाइ अण्णं च । पंचमहवयसुद्धं, णाणमयं जाण चेदिहरं ॥ इति । राजप्रश्नीयसूत्रे मलयगिरिभिरपि – “कल्लाणं मंगलं देवयं चेइयं " इत्यस्य व्याख्यायां-‘कल्याणं ' - कल्याणकारित्वात्, मंगलं - दुरितोपशमनकारित्वात्, दैवतं देवं त्रैलोक्याधिपतित्वात् चैत्यं - सुप्रशस्तमनोहेतुत्वा' - दिति । भागवते ठ चैत्यशब्देन न केवलं ज्ञानमेव, अपितु पूर्णज्ञानवानात्मा गृहीतोऽस्ति, तथाहि"अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ” (तृतीय स्कन्धे षड्विंशतितमे अध्याये श्लो. ६१) इति, विरारूपस्य ब्रह्मणो हृदयात्.... अहङ्कार उत्पन्नस्तस्माद्भुद्रस्तथा चित्तमुत्पन्नं, चिताच चैत्य इत्यर्थः । चैत्यः = क्षेत्रज्ञः, इति तट्टीकायां श्रीधरस्वामी । ' क्षेत्रज्ञ आत्मा पुरुष : ' इत्यमरः । एवमेवात्रैव स्कन्धेऽध्याये च (श्लो० ७० ) प्रोक्तम्-“चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । त्रिराट् तदैव पुरुषः सलिलादुदतिष्ठत" इति तदस्यास्तीति चैत्यस्तं सम्यग्ज्ञानवन्तमित्यर्थः 1 चैत्यशब्दो नानार्थकः ः स चेहाऽप्रपञ्चितोऽपि प्रसङ्गादन्यत्र निरूपयिष्यते । ' पज्जुवासामि ' पर्युपासे =सविधि सेवे | " मत्थपण वंदामि' मस्तकेन = मस्तकं नमयिस्वेत्यर्थः, वन्दे = अभिवादये || मू० १ ॥ , दुःखोंका अन्त करनेवाले हैं, अथवा मङ्ग-मोक्ष प्राप्ति के साधनभूत श्रुतचारितरूप धर्म को धारण करने वाले, एवं धर्मदेवस्वरूप है, और चैत्य अर्थात् ज्ञानवान् हैं, अतएव मनवचन काय से मैं आपकी सेवा तथा शिर झुकाकर वन्दना करता हूँ ।। सू० १ ॥ स्व३५ छो; अरण्य संसारना हुन संत साववावाजा छो. अथवा मंग=मोक्षપ્રાપ્તિના સાધનભૂત શ્રુત-ચારિત્રરૂપ ધર્મને ધારણ કરવાવાળા સ્વરૂપ છે, અને ચૈત્ય અર્થાત જ્ઞાનવાળા છે એટલે મન હું આપની સેવા અને મસ્તક નમાવીને વંદના કરૂ એટલે કે ધર્મદેવ વચન અને કાયાથી છુ. (સૂ॰ ૧) १ अर्श आदित्वादच् ।
SR No.040007
Book TitleAvashyak Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages405
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_aavashyak
File Size262 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy