________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम्-४
२८३ अतएव, 'अक्खयाचारचरित्ता' आचार: आधाकर्मादिदोषपरित्यागः, चारित्रं-सामायिकादि, आचारश्च चारित्रं चेत्याचारचारित्रे, अक्षते अखण्डिते आचारचारित्रे येषां ते-अक्षताऽऽचारचारित्राः देशतः सर्वतश्चाऽविप्लुताऽऽचारचारित्रा इत्यर्थः । सम्पत्युपसञ्जिहीर्षयाऽऽह-'ते सव्वे' तान् सर्वान् गच्छगताँस्तनिर्गताँश्च जिनकल्पिकादीन् साधून 'सिरसा' शिरसा करशिरःसंयोगेनेति भावः, अग्रे 'मत्थएण' (मस्तकेन) इत्यस्योपादानात्, ‘मणसा' मनसा हृदयेन, 'मत्थएण' मस्तकेन=शिरसा नतेनेति शेषः, अतएव 'सिरसा' 'मत्थएण' इत्यनयोः पर्यायत्वेऽपि न पौनरुत्यम्, यत्तु पौनरुक्त्यभयाद्डलिकाप्रवाहेण वा 'मस्थएण वंदामि' इति वाचा वदेदिति व्याख्यानं तदत्यन्ताऽसामञ्जस्यात्सूत्राक्षराभिमायापरिज्ञानाद्वा विद्वदश्रद्धेयमेवेति सहृदयाः प्रमाणम् । न च'सिरसा' इत्यनेन कायिकस्य ‘मणसा' इत्यनेन मानसिकस्य च वन्दनस्योक्ती वाचिकस्यापि तस्योपादानमावश्यकमेवेति युक्तमेवेति वाच्यम्, 'तान् सर्वान् शिरसा मनसा मस्तकेन वन्दे' इत्युक्तौ वाचिकवन्दनस्यार्थापत्तिलभ्यत्वात् , नहि वापयोगं विनैवमुक्तिः 'समस्तीत्यास्तां तावत् । इत्थं सर्वसाधूनभिवन्ध निखिलपाणिजातक्षमापणपूर्वकं मैत्रीमभिव्यनक्ति-'सन्न.' इति 'सन्चजीवे' सर्वे च ते जीवाः सर्वजीवास्तान्=क्षुद्रक्षुद्रेतराखिलपाणिनः, 'खामेमि' क्षमयामि= सर्वेभ्यो जीवेभ्यः क्षमामभिकाङ्क्षामीत्यर्थः, 'सब्वे जीवा' सर्वे जीवाः 'मे' मम अज्ञानादिवशाजातमपराधमितिशेषः 'खमंतु' क्षमेरन् । 'मे' मम, 'सव्वभूएसु' सर्वभूतेषु, 'मित्ती' मैत्री मित्रभावः अस्तीत्यध्याहियते, 'यत्र
इस प्रकार सन्त मुनिराजों को वन्दना करके समस्त जीवों की क्षमापनापूर्वक मित्रभावना प्रकट करते हैं-'मैं सब जीवों से अपने अपराध की क्षमा मांगता हूँ और वे सभी मेरे अपराध की
એ પ્રમાણે સન્ત મુનિરાજોને વંદના કરીને સમસ્ત જીવેની ક્ષમાપનાપૂર્વક મિત્રભાવના પ્રગટ કરે છે. હું સર્વ જી પાસે મારા અપરાધની ક્ષમા માંગુ છું, અને
टि. १-समस्ति-संभवति ।