SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मुनितोषणी टीका 'काउस्सग्गं' कायस्य-शरीरस्य उत्सर्गम् अतिचारविशुद्धये त्यागं 'ठामि' 'तिष्ठामि स्थापयामीत्यर्थः यद्वा उकरोमीत्यर्थः । अथवा 'काउस्सग्गं' इत्यप्राऽऽर्षस्वात्तृतीयार्थे द्वितीया, तेन कायोत्सर्गेणाऽर्थात् कायोत्सर्ग कृत्वा तिष्ठामीस्यर्थः । ननु कथमेतावत्सामध्ये कायोत्सर्गम्य वर्णित ? मिति चेदच्यते यतः साक्षात्तीर्थकरैरेवायं मोक्षमार्गः प्रोक इति, एवं च सति सातिचारस्य श्रामण्ययोगस्याऽऽत्मनो वोच्चतरीकरण-प्रायश्चित्तकरण-विशोधीकरण-विशल्यीकरण-पापकर्मनिर्घातनान्यतिचारनिवृत्तिस्वरूपाण्ये वेत्यनिचारनिवृत्त्यर्थ कायोत्सर्ग करोमीति पर्यवसन्नोऽर्थः । न च सर्वथा, किं तर्हि ? तदाह-' अन्नस्थ ' अन्यत्र-विना 'ऊससिएणं ' ऊर्च श्वसनम् उच्छ्वसितं, नपुंसके भावे क्तस्तेन-उच्छ्वासं विनेस्यर्थः, एवमग्रिमरपि तृतीयान्तैः सहाऽन्यत्रेत्यस्य सम्बन्धो योज्यः। नीससिंएणं' निःश्वसितेन-निःश्वसितं=श्वासमोक्षणं तेन, 'कासिएणं' -कासितेन कासेन। 'छीएणं' क्षुतेन क्षुतं नासिकाऽभिघातजन्याऽऽकस्मिकमशब्दाऽनिलनिस्सरणं 'हन्छि' रिति, 'छिक्के ति च प्रसिद्धं ('हा छी' इति भाषायाम् ) तेन । 'जंभाइएणं' जृम्भितेन-जुम्भा आलस्यजनितो मुखव्यादानपूर्वकतद्वाराऽऽन्तरपवनविनिर्गमस्तेन। 'उड्डुएणं' उद्गारितेन'उड्डुअ' इत्यस्य देशिशब्दतादद्गारितमर्थः,उद्गारितं चोद्गार:कण्ठगर्जनाऽपरपर्यायः, उद्वमनप्रभेदस्तेन । 'बायनिसग्गेणं' वातनिसर्गेण-वातस्य= करने के लिये मैं कायोत्सर्ग करता है, किन्तु इसमें श्वास का लेना तथा निकालना, खाँसना, छीकना, जंभाई लेना, डकारना, अपानवायु का निकलना, पित्तप्रकोप आदिसे चक्करका आना, मृर्छाका आना, વિગેરે પાપ (આઠ) કમેને નાશ કરવા માટે હું કાર્યોત્સર્ગ કરું છું. પણ એમાં શ્વાસ લે તથા મૂક, ખાંસી ખાવી, છીંક ખાવી, બગાસું ખાવું, એડકાર ખાવે, અપાનવાયુનો સ્ત્રાવ થવે, પિત્તપ્રકોપથી અંધારા આવવા, મૂરછ १- दृष्टं हि सकर्मकस्यापि धातोः कचिदकर्मकत्वं यथा, काव्यप्रकाशे द्वितीयोल्लासे -' विषयविभागो न पाप्नोती'-ति । अकर्मकस्यापि च सकर्मकत्वं यथा-' यथा शत्रु जयति भारं वहती'--त्यादि च । २- अन्तर्भावितण्यर्थत् स्था-धातोः स्थापयामीत्यर्थः । ३- 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' इत्यत्रैवग्रहणेन ‘परौ भुत्रोऽबनाने, इत्यत्राऽवज्ञानग्रहणेन च धातूनामनेकार्थत्वकल्पनात् करोमीत्यर्थः ।।
SR No.040007
Book TitleAvashyak Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages405
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_aavashyak
File Size262 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy