________________
सुनितोषणी टीका
७९
गुप्तीनां चतुर्णां कषायाणां पञ्चानां महाव्रतानां षण्णां जीवनिकायानां, सप्तानां पिण्डैषणाना, - मष्टानां प्रवचनमातृणां, नवानां ब्रह्मचर्यगुप्तीनां दशविधे भ्रमणधर्मे श्रमणानां योगानां यत्खण्डितं यद्विराधितं तस्य मिथ्या मे दुष्कृतम् ॥ मु० २ ॥ ॥ टीका ॥
' 'ठामि ' स्थातुं चित्तैकाग्रतयेति शेषः, कर्तुमित्यर्थः । 'काउस्सग्गं ' कायोत्सर्ग, कायस्य= शरीरस्य उत्सर्ग = तदेकतानता पूर्वकैकदेशावस्थितिध्यानमौनव्यतिरिक्तयावत्क्रियाकलापसम्बन्धमधिकृत्य सर्वावेच्छेदेन परित्यागम् - अतिचारसंशुद्धये व्युत्सर्जनं, ममत्वापवर्जन वा 'इच्छामि = वाञ्छामि । तत्रादौ वक्ष्यमाणरीत्या दोषान् पर्यालोचयति - 'जो' इति । यः = कायोत्सर्गः मया = कर्तृभूतेन 'देविसओ' = दिवसेन निर्वृत्तो देवसिक दिवसपदं रात्रेरप्युपलक्षकं तेन
हे भदन्त ! मैं चित्तकी स्थिरता के साथ एक स्थान पर स्थिर रहकर ध्यान - मौन के सिवाय अन्य सभी व्यापारों का परित्यागरूप कायोत्सर्ग करता हूँ, परन्तु इसके पहले शिष्य अपने दोषों की आलोचना करता है- 'जो मे' इत्यादि । जो मुझसे प्रमादवश दिवससम्बन्धी तथा रात्रिसम्बन्धी संयममर्यादा का उल्लङ्घनरूप
હે ભદન્ત ! હું ચિત્તની સ્થિરતાની સાથે એક સ્થાન ઉપર સ્થિર થઇને ધ્યાન મૌન સિવાય અન્ય અધા કામેના ત્યાગરૂપ કાર્યોત્સર્ગ કરૂ છું, परंतु मेना पडेसां शिष्य पोताना होषोनी आसोयना पुरे छे. " जो मे प्रत्याहि " જો મારાથી આળસવશ દિવસસંબંધી તથા રાત્રિસંધી સમયમર્યાદાના
१ - 'ठामि' कर्त्तुमित्यर्थः । धातूनामनेकार्थत्वात् 'स्था' धातुः करोत्यर्थः, आर्षस्वाद् 'मिप्' प्रत्ययः तुमुन्नर्थः, आर्षेषु हि प्रयोगेषु बाहुलकेन सर्वे विधयो विकल्प्यन्ते यदुक्तम्- 'कचित्पत्तिः कचिदमवृत्तिः कचिद्विभाषा कचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति " ॥ १॥ इति, किश्च - “सुप्तिङपग्रहलिङ्गनराणां, कालहलचस्वरकर्तृयङांच । व्यत्ययमिच्छति शास्त्रकृदेषां, सोऽपि च सिध्यति बाहुलकेन ||२||" इति, तत्र उपग्रहः = परस्मैपदाऽऽत्मनेपदे, नरः=प्रथमादिपुरुषत्रयम् । कालः = कालवाचकः प्रत्ययः । कर्तृशब्दः कारकत्वावच्छिन्नोपलक्षकस्तेन कारकवाचिनां कृत्तद्धितानां विपर्ययः । यङिति यङो यशब्दादारभ्य लिङ्याशिष्यङ्ङिति ङकारेण प्रत्याहारः । स्पष्टं शिष्टम् । २ “ तेन निर्वृत्तम् ” (५ । १ । ७८) इति ठक् ।
"