SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रे जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो कारसावणो, जहा एगो साली तहा बहवे साली, जहा बहवे साली तहा एगो साली। से तं एगसेसे समासे। से तं समासिए ।सू० १८५॥ छाया-अथ किं तत् भावप्रमाणम् ?, भावप्रमाणं-चतुर्विधं प्रज्ञप्तं, तद्यथासामासिकं तद्धित धातुकजं निरुक्तिनम् । अथ किं तत् सामासिकं ?२ सप्तसमासा: भवन्ति, तद्यथा-द्वन्द्वश्च बहुव्रीहिः कर्मधारयो द्विगुश्च । तत्पुरुषः अव्ययीभावः एकशेषश्च सप्तमः॥१॥ अथ कोऽसौ द्वन्द्वः-दन्ताश्च ओष्टौ च दन्तोष्ठम्, स्तनों च उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम् , अश्वाश्च महिषाश्च अश्वमहिपम् , अहिश्च नकुलश्च अहिनकुलम् । स एष द्वन्द्वः समासः । अथ कोऽसौ बहुव्रीहिः समास: ? बहुव्रीहिः समासः-फुल्ला अस्मिन् गिरौ कुटजकदम्बा सोऽयं गिरिःकुल्लकुटजकदम्बः। स एष बहुव्रीहिसमासः। अथ कोऽसौ कर्मधारयः? कर्मधारयःघवलो वृषभो धवलषमा, कृष्णो मृगः कृष्णमृगः, श्वेतः पटः श्वेतपटः, रक्तः पटो रक्तपटः। स एष कर्मधारयः। अथ कोऽसौ द्विगुसमास: १ द्विगुसमास:श्रीणि कटुकानि त्रिकटुकम् , त्रीणि मधुराणि त्रिमधुरम् , त्रयो गुणाः-त्रिगुणम्, त्रीणि पुराणि त्रिपुरम्, त्रयः स्वरात्रिस्वरम् , श्रीणि पुष्कराणि त्रिपुष्करम् , त्रीणि बिन्दुकानि त्रिबिन्दुकम् , त्रयः पन्थान:-त्रिपथम् , पञ्च नधः पश्चनदम् , सप्त गजाः सप्तगजम्न व तुरङ्गा:-नवतुरङ्गम् , दश ग्रामा:-दशग्रामम् , दशपुराणिदशपुरम् । स एष द्विगुसमासः। अथ कोऽसौ तत्पुरुषः? तत्पुरुष:-तीर्थ काक:तीर्थकाका, बने इस्ती-वनहस्ती, वने वराह:-वनवराहा, वने महिषा-वनमहिषः, वने मयूर:-वनमयूरः। स एष तत्पुरुषः। अथ कोऽसौ अपयीमावः१ अव्ययीमावः-ग्रामस्य पश्चा अनुग्रामम, एवम् अनुमदिकम् , अनुस्पर्शम् , अनुचरितम् । स एषोऽव्ययीभाव समासः। अथ कोऽसौ एकशेषः-एकशेषो यथा एका पुरुषस्तथा बहवः पुरुषाः, यथा बहवः पुरुषास्तथा एकः पुरुषः, यथा एकः कार्षापणस्तथा बहवः कार्षापणाः, यथा-बहवः कार्षापणास्तथैकः-कार्षापणा, यया एका शालिस्तथा बहवः शालयः, यथा बहवः शालयस्तथैकः शालिः। स एष एकशेष: समासः । तदेतत् सामासिकम् ॥१८५॥
SR No.040004
Book TitleAnuyogdwar Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages925
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anuyogdwar
File Size147 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy