________________
४५८
अनुयोगद्वारसूत्रे जघन्यपदवतित्वं बोध्यम् । इत्थं च जघन्यपदवर्तिनां गर्भजजीवानां संख्येयत्वासन्छरीराण्यपि संख्ये यानि । ननु संख्येयममाणेऽनेकसंख्येषभेद उपलभ्यते, अत्र यत्संख्येयममाणमुक्तं तत् कियत् ? इत्याह-संख्येयाः कोटीकोटयः- गर्भजमनुष्यप्रमाणं संख्येयकोटीकोटयात्मकं बोध्यम् । एताः संख्येयकोटीकोटयः एकोनत्रिंशत् स्थानानिएकोनत्रिंशदङ्कस्थानानि भवन्ति । अमुमेवार्थमाह-त्रियमलपदस्य उपरि चतुर्यमलपदस्याधस्तादिति । यमलमिति अष्टानामष्टानामङ्कस्थानानां समयमसिद्धा संज्ञा । त्रयाणां यमलपदानां समाहारस्त्रियमलपदम्-चतुर्विशत्यङ्कस्थानलक्षणं, तस्य उपरि तथा चतुर्यमलपदस्थ-द्वात्रिंशदङ्कस्थानानाम् अधस्तात् । अयं भावः एकोनत्रिंशत् अङ्कस्थानानि चतुर्विंशत्यङ्कस्थानात्मकस्य त्रियमलपदस्य उपरिपञ्चाङ्कस्थानाधिकानि तथा द्वात्रिंशदङ्कस्थानात्मकस्य चतुर्यमलपदस्य अधःस्थानात् त्रितयाङ्कस्थानहीनानीति । अथवा-षष्ठो वर्गः पश्चमवर्गमत्युत्पन्ना पश्चमवर्गगुणित एकोनत्रिंशदङ्कस्थानात्मको भवति । अयं भावः-एकस्य दर्ग एक एव भवति, अयं न वर्धतेऽतो न वर्गत्वेन गृह्यते । द्वयोगश्चत्वारः (४), एष प्रथमो वर्गः । चतुर्णा वर्गः षोडश (१६), एष द्वितीयो वर्गः । षोडशानां वर्गः षट्पश्चाशदधिकशतद्वयम्-(२५६), एष तृतीयो वर्गः । षट्पञ्चाशदधिकशतद्वयस्य वर्ग: पश्चषष्टिः सहस्राणि पश्चशतानि पत्रिंशदधिकानि (६५५३६) एष चतुर्थों वर्गः । एषां वर्गाः चत्वारि कोटिशतानि एकोनत्रिंशत् कोटयः एकोनपञ्चाशल्लक्षाणि सप्तषष्टिसहस्राणि द्वे शते षण्णवतिश्चेति (४२९४९६७२९६), एष पश्चमो वर्गः। एषां वर्ग:-एक कोटीकोटिश सहस्रं, चतुरशीतिः कोटीकोटिसहस्राणि, सप्तषष्टयधिकानि चत्वारि कोटीकोटिशतानि, चतुश्चत्वारिंशत् कोटीलक्षाणि, सप्तकोटीसहस्राणि, सप्तत्यधिकानि त्रीणिकोटिशतानि, पञ्चनवतिर्लक्षाणि, एकपश्चाशत्सहस्राणि षट्शतानि षोडश च (१८४४६७४४०७३७०९५५१६१६), एष षष्ठो वर्गः । एषु वर्गेषु षष्ठो वर्ग: पञ्चमवर्गेण गुण्यमानः-७९२२८१६२. ५१४२६४३३७५९३५४३९५०३३६-एकोनत्रिंशदङ्कस्थानात्मको भवति । अयं च राशिः कोटीकोटयादिप्रकारेण प्रतिपादयितुं न शक्यते, अतएव पर्यन्तक्रममाश्रित्य द्वाभ्यां गाथाभ्यामयं निर्दिष्टः, तथाहि-छ तिन्नि तिनि सुन्नं पंचेव य नव य तिथि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥१॥ चउ छद्दो चउ एक्को पण दो छक्केक्कगो य अन । दो दो नव सत्तेव य अंकहाणा परा हुत्ता २॥ छाया-पत्रीणि त्रीणि शून्यं पश्चैव च नव च त्रीणि चत्वारि। पञ्चैव त्रीणि नव पञ्चसप्त त्रीण्येव त्रीण्येव ॥१॥ चत्वारि षड् द्वे चत्वारि एका पञ्च द्वे षट् एककश्च अष्ट्रय । द्वे द्वे नव सप्तैव च अङ्कस्थानानि पराङ्मुखानि ॥२॥