________________
मनुयोगहाररणे टीका-'एएसिण' इत्यादि
एतेषां सप्तानां स्वराणां सप्त स्वरलक्षणानितत्तत्फलप्राप्त्यनुसारीणि स्वरसच्चानि कथितानि । तान्येव फळत आह-तद्यथा-षड्जेन लभते वृत्तिम्' इत्यादिभिः सप्तभिः श्लोकः । तथाहि-षड्जेन स्वरेण जनो वृति जीविकां लभते। तथा षड्नस्वरवतो जनस्य कृतं कर्म विनष्टं न भवति सफलमेव भवतीत्यर्थः। तस्य गावः पुत्रा मित्राणि च भवन्ति । तथा स स्त्रीणां वल्लभः प्रियश्च भवति । ऋषमेण स्वरेण तु ऐश्वर्यम् ईशनशक्तिमत्त्वं, सेनापत्यं-सेनापतित्वं, धनानि, वस्त्रगन्धम् वस्त्राणि गन्धांश्च, अलंकारं स्त्रियः शयनानि च लभते । तथा-गान्धारे गान्धारस्वरे गीतयुक्तिज्ञाः गीतयोजनावेत्तारः-गान्धारस्वरगानकार इत्यर्थः, वर्यवृत्तयः-वर्याः श्रेष्ठा वृतिः जीविका येषां ते तथा-श्रेष्ठजीविकावन्तः, कलाधिका:-कलाभिरधिका कलाज्ञेषु मुर्धन्याश्च भवन्ति । तथा-कवयः काव्यकारः, 'कृतिनः' इतिच्छायापक्षे- कत्तव्यशीलाः, प्राज्ञासबोधाश्च भवन्ति । ये अन्ये पूर्वोक्तभ्यो गीतयुक्तिज्ञादिभ्यो ये भिन्ना भवन्ति ते शास्त्रपारगाः सकल शास्त्र. निष्णाता भवन्ति । तया-मध्यमस्वरसम्पन्नास्तु सुखजीविनः=सुखेन जीवितुं शीला भवन्ति । सुखजीवित्वमेव प्रकटयति मध्यमस्वरमाश्रितो जनो हि खादति-सुस्वादु भोजनं भुङ्क्ते, पिबति दुग्धादिपानं करोति, ददाति अन्यानपि भोजयति पायपति च । पञ्चमस्वरसम्पन्नास्तु पृथिवीपतयो भवन्ति, तथा-शुराः संग्रहकर्तारः अनेकगणनायकाच भवन्ति । तथा-धैवतस्वरसम्पन्नास्तु कलहप्रिया:-क्लेशकारका भवन्ति तथा-शकुनिकाः-शकुनेन श्येनेन पर्यटन्ति, शकुनान्=पक्षिणो घ्नन्ति वा शकुनिका: पक्षिघातका लुब्धकविशेषाः । वागुरिका:-वागुरा-मृगबन्धिनी, तया चरन्तीति वागुरिकाः हरिणघातका लुब्धकविशेषाः, सौकरिकाः सूकरेणसूकरवधार्थ चरन्ति, सूकरान् घ्नन्ति वा सौकरिकाःकरघातका लुब्धकविशेषाः, तथा-मत्स्यबन्धाः मत्स्यघातिनश्च भवन्तीति । तथा-ये चाण्डाला: चाण्डकर्माणः, मौष्टिकः-मुष्टिः प्रहरणं येषां ते तथा, मुष्टिभिः पहरणशीला इत्यर्थः, सेयाः अधमजातीया मनुष्याश्च सन्ति, एभ्योऽन्ये च ये पापकर्माणः= पापकर्मपरायणाः सन्ति, तथा च ये गोघातकाः सन्ति, ये च चौराः सन्ति, ते सर्वे निषादस्वरमाश्रिता विज्ञेयाः इति । एष पाठः स्थानागानुसारेण व्यख्यातो पृहीतश्च ॥सू० १६४॥ है, ऐसा जानना चाहिये । यह पाठ स्थानाङ्ग के अनुसार व्याख्यात किया है-और वहीं से किया है। सू०१६४॥ मस्सिओ) a निभा २५२नु स्या२५ ४३ छ स्थाना प्रभार मा 48 मही વ્યાખ્યાત કરવામાં આવ્યું છે–અને ત્યાંથી જ લેવામાં આવ્યો છે. સૂ૧૬૪