SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जंबुकमारा विषयादिकं स्थापयन् कर्माणि बध्नाति, अहो ! दुरन्ता विषयाः, विषेभ्योऽप्यधिका विषया इति सत्यमेव. विषयाचरित्रम मृतानपि मारयन्ति. यदुक्तं-भिक्षाशनं तदपि नीरसमेकवारं / शय्या च भूः परिजनो निजदेहमात्रं // वस्त्रं च जीर्ण॥१५॥ शतखन्डमयी च कन्या / हा हा तथापि विषया न परित्यजन्ति // 1 // अतो भो वनिता यदि जन्मजरामरणवियो // 15 // गशोकादयः शत्रवो मत्समीपं नायांति तदाहं भवत्संबन्धिनो भोगानभिलषामि, यथा मां बलात्कारेण गृहे स्थापयथ, तथा रोगादिभ्योऽपि रक्षणे किं शक्तिरस्ति ? तदा स्त्रीभिरुक्तं स्वामिन्नेतादृशः कः समर्थो यः संसारस्थितिं वारयति तदा जम्बूकुमारेणोक्तमहमशुचिभृतायां मोहकुंडिकायां भवदीयायां तनौ न रतिं प्रामोमि, यतोऽनंतपापराशिभवः / स्त्रीणां भवनिबन्धः, यदुक्तं-अणंता पावरासीओ। जया उदयमागया // तया-इच्छित्तणं पत्तं / सम्मं जाणाहि गोयमा // 1 // पुनरप्युक्तं-दर्शने हरते चित्तं / स्पर्शने हरते बलं // संगमे हरते वीर्य / नारी प्रत्यक्षराक्षसी // 1 // इति. अतो नाहं ललितांगवन्मोहनिमग्नोऽशुचिकूपे भवकूपे निवसामि, तदा स्त्रीभिरुक्तं स्वामिन् कोऽयं ललितांगो यः स्वामिनोपनयं नीतः, जम्बूकुमारः कथयति वसन्तपुरे नगरे शतप्रभो राजा राज्यं करोति, तद्गृहे रूपवती नानी पट्टराज्ञी, साऽतीवरूपवती यौवनादिगुणाकीर्णा मोहनृपराजधानी राज्ञोऽतीववल्लभा, परन्तु सा व्यभिचारिणी, एकदा सा रूपवती गवाक्षस्थिता नगरकौतुकं विलोकयति. तस्मिन्नवसरे ललितांगनामा कश्चिद्युवाऽतीवरूपपात्रं मार्गे गच्छंस्तया दृष्टः, तद्रुपदर्शनाजातमोहोदयाऽतीवकामातुरा रूपवती चेटीप्रति भो एनं युवानमानय ? तया तस्मै निवेदितं मदीया स्वामिनी त्वामाकारयति, अतः समागच्छ मया सार्द्ध मत्स्वामिनीगेहं ? सोऽपि विषयभिक्षापरिभ्रमण PP.ANGanratnasuri M.S. Jun Gun Aaradhust ADI
SR No.036443
Book TitleJambu Kumar Charitra
Original Sutra AuthorN/A
AuthorDharmdas Gani
PublisherShravak Hiralal Hansraj
Publication Year1934
Total Pages19
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy