SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Cre चरित्रम् पितुरुक्तं त्वं निश्चितो भव ? अहं राज्ञोऽग्रे गत्वा नवीनां कथां कथयिष्यामीति राज्ञोऽग्रे गता, राज्ञा पृष्टं भो पुत्रि ? जंबूकुमार कथां कथय ? यथा मन्मनोरंजनं जायते. ब्राह्मणपुत्र्या कथितं हे राजन् ! स्वानुभूतामेव वाती कथयामि, सावधानतया शृणु ? हे स्वामिन्नहं पितृगृहे नवयौवनवती जाता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण सार्द्ध मदीयो विवाहो // 14 // मेलितः, स नवीनमेलितविवाहो मदीयो भर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मातापितरौ क्षेत्रं गतौ, अहमेकाकिनी गृहे स्थिता. मया सम्यक्स्नानभोजनादिना स भर्ताऽतीवसन्तोषितः, सोऽपि भर्ता मदीयामद्भुतं रूपं दृष्ट्वाऽतीवकामाज्वरपीडितो जातः, पल्यंकोपरि स्थितोंगमोटनं करोति सरागवचनं वदति, पुनः पुनर्मामवलोकयति. मया तदीयोऽभिप्रायो ज्ञातः, तदा मया कथितं भो कांत! त्वरा न विधेया, पाणिग्रहण विना विषयादिकृत्यं न भवति. अतिबुभुक्षितोऽपि पुमान् किं करद्वयेन भुंक्त ? ततोऽधुना विषयसेवनं न युक्तमेवेति मदीयवाक्यं श्रुत्वाऽतीवकामातुरस्य तस्य कुक्षौ शुलं समुत्पन्नं, तेन व्याधिना च स मदीयो भा मृतः, तदा मया स गृहमध्ये भूमौ निक्षिप्तः, केनापि न ज्ञातं, मात्रा पित्रापि न ज्ञातं. हे स्वामिनिय मदीयाऽनुभूता वार्ता कथिता. तां In श्रुत्वा राजातीवसन्तुष्टो जातः, सा कन्या गृहे समायाता. जयन्तश्रीः कथयति यथा तया कल्पितवार्तया राज्ञो मनो IN रञ्जितं, तद्वत्त्वमप्यस्माकं मनोरञ्जयसि, परन्तु मिथ्यैवेयं प्रवृत्तिः, अतो यः स्वकीयं चरणं विचार्य धरिष्यति तस्य लज्जा स्थास्यति, अतो हे स्वामिन् भुक्तभोगी भूत्वा पश्चाचारित्रं गृहीत्वात्मार्थः साधनीयः / इति ब्राह्मणपुत्रीI दृष्टांतः / इति जयन्तश्रीवाक्यं श्रुत्वा जम्बूकुमारः प्राह-भा जयन्तश्रि मोहातुरमनाः प्राणी अधर्म धर्मबुद्धिं निधाय POSeeeeeeeeee @eelere P.P.Kunratnasuri M.S. Jun Gun Aaradhi
SR No.036443
Book TitleJambu Kumar Charitra
Original Sutra AuthorN/A
AuthorDharmdas Gani
PublisherShravak Hiralal Hansraj
Publication Year1934
Total Pages19
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy