________________ धर्म-पादिपूजाया अनुपयोगित्वमाशंक्य परिहरन् श्लोकत्रयमाह // मूलम् ॥–यदि बयानरः कोऽपि / पूजया किं प्रयोजनं // वीतरागस्य वाच्योऽसौ / स. त्यमेव त्वयोदितं // 1 // शीतोष्णकालयोर्यद-ज्जनो यत्नेन सेवते // जलानलौ तयोर्नैव / गु. 270 णः कोऽपि प्रजायते // 5 // तथापीहोपकारोऽस्ति / तत्सेवाकारिणामलं // एवमेव स विज्ञेयो / जिनपूजाविधायिनां // 3 // व्याख्या-यदि ब्रूयाद्यदि वदेन्मनुष्यः कोऽपि कश्चित्पूजया सपर्यया किमिति प्रश्ने प्रयोजनं कार्य वाच्योऽसौ वक्तव्योऽसौ सत्यमेवावितथमेव त्वया भवतोदितं जणितमिति, एवमाशंक्योत्तरमाह // 1 // शीतोष्णकालयोः प्रतीतयोर्यद्येन प्रकारेण जनो लोको यत्नेनादरेण सेवते आश्रयते जलानलौ सलिलज्वलनौ, तयोर्जलानलयोनॆव गुणो नैवोपकारः कोऽपिकश्चित्प्रजायते भवतीति. // 2 // तथापीह तथाप्यत्रोपकारो गुणोऽस्ति विद्यते तत्सेवाकारिणां जलानलसेवाविधायिनां, तत्र जलं सेवमानानां पंकदाढतृष्णापनोदलदणो गुणो जायते, अनलसेविनां पुनः सीतापगमादिक इति. एवमेवेबमेव स उपकारः पुण्यबंधलदाणो विज्ञेयो ज्ञातव्यो जिनपूजाविधायिनां सर्वइसपर्याकारिणामिति. उक्तं च-पूयाए कायवहो / पमिकुछो सो य नेय PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust