SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वतार: लेखक्रियायाः परावर्तमानतया स्था दानादानादिमूलं साक्षात् वचनरूप कृतो. दण्डः, ततस्तथाविधजिहाछेदादिकारणत्वादेव तथाविधमृषावादवक्तुस्तथाविधमृषावदनोपदेशदातुरपि दुष्टताऽभिमता, तत एव तथाविधमृषावादवदनोपदेशदानमपि स्थूलमृषावादतामानीतं अतिचारताख्यानेन प्रत्याख्यापितं चेति / कूटलेखस्य करणं च यद्यपि न साक्षात् वचनरूपं, न च साक्षान्मृषावादरूपं, परं वचनरूप पव व्यवहारो दानादानादिमूलं कालान्तरेऽपि तस्य व्यवहारस्य नियतत्वार्थमविसंवादित्वार्थमपरावर्तमानतया स्थापनार्थ प्राक्तनवचनव्यवहारस्य जगति लेखक्रियायाः करणो व्यवहार इति कूटळेखक्रियायाः क्रियारूपत्वेऽपि मृषावादस्ततो दण्डोऽपि मृषा वक्तुरिव कूटलेखकारकस्य जिह्वाहस्तादिच्छेदादिरूपो भवति, ततस्तस्य मषावादविरमणस्यातिवारता प्रत्याख्येयता चेति / यद्यपि कूटलेखस्य करणं परस्य गवादीनामपहागयैव स्यात्, स्याच्च तस्मात्तस्यादत्तादानरूपता, परं खस्य तत्वमेव तद् यदुतवचनविन्यासस्य स्थैर्याद्यर्थ लिपीकरणमिति, वचनविन्यासस्य विपर्ययरूपेण विन्यासात्तस्य कूटळेखकरणस्थापि मृषावादाणुव्रत पवातिचारता प्रत्याख्येयता च। अत्र च यथाऽऽद्याणुव्रते वधबन्धादयो न स्थूलप्राणातिपातरूपास्तथापि वधबन्धादिभ्य एव परेषां प्राणानामपरोपो भवति द्विपदादीनामिति, ते वधबन्धाद्या अतिचारतया तत्रो. फ्ताः, तथाऽत्रापि स्थूलमृषावादविरमणे सहसाऽभ्याख्यानरहोऽभ्याख्यानस्वदारमन्त्रभेदा अपि स्थूलस्यैव मृषावा. दस्य हेतुतामाश्रयेयुरिति सहसाऽभ्याख्यानादीनामप्याख्याताऽतिचारतेति / यथाऽऽद्याणुव्रते हिंस्यानां तदतिपातस्य तद्विरमणस्य च द्वीन्द्रियादित्रसविषयत्वात् सङ्कल्पादिरूपत्वाद् द्विविधत्रिषिधादिभखैरुपेतत्वात् स्थूलता, द्वितीये च तस्मिन् राजदण्डनायकपुरश्रेठ्यादिजनाधीशनिर्वर्तितस्य जिह्वाछेदादिरूपस्य दण्डस्य योग्यो यो मृषावादो गोभूम्यादिविषयस्तस्य तथादण्डकारणत्वेन स्थूलत्वं, तथा तृतीयेऽस्मिन् विषयदण्डादीनपेक्ष्यापि पौरजनपदादिषु चौरंकारकरं यत्तत् स्थूलमदत्तादानं गण्यते, तद्विषयमेव चात्र प्रत्याख्यानं क्रियमाणं तृतीयं स्थूलादत्तादानविरमणमिति गण्यते। अत एवात्र स्तेनाहृतादयोऽतिचाराः, यतो लोके ये स्तेनतया शाता जातास्तैरानीतं योग्येन महताऽल्पेन वाऽपि मूल्येन गृहणतोऽतिचारो गण्यते, स्तेनातिरिक्तेभ्योऽल्पमूल्यादिना ग्रहणेऽपि वस्तूनां नातिचारता, राजादयोऽषि मूल्यादेरल्पत्वादिविचाराद्विशेषेण कैः कीदृशश्चानीतं गृहीतमेतेनेति न्यायावसरे विचारयन्ति, तदनुसारेणैव च दण्डं निर्वतयन्ति, ततश्च क्वचिन् महति मलिम्लुचि अल्पव्यवहारकारकोऽपि ति सहलामाविषयत्वात् सङ्कल्पातितस्य जिताछेदाविदण्डादीनपेक्ष्यापि मूल्यादिना ग्रहणेऽपि वा विचाराद्विशेषेण कैः पान्त, तदनुसारेणैव च // 29 // TRIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy