________________ पश्च ता प्सूत्र बतारः // 18 // 50 धारककुटुम्बभारनिर्वहणोद्यतानामपि महागोपादिज्ञातसिद्धमाहात्म्यानां प्रवंचनस्वाङ्गीकरणं सर्वविरतिग्रहणप्रवणमनस्कत्वं धारयित्वा सङ्गनिमग्नस्याप्युद्धरणबुद्धच्याऽणुव्रतानां धारणं रक्षणं च, यतः समुद्रमग्नानां मकरादिभयेभ्योऽवनं यथा दुष्कर, तथैव विषयारम्भपरिग्रहमग्नानामपि त्यागपरिणामेन देशविरतेर्धरण दुष्करतरं। ततो योग्यमुक्तमणुव्रतादीनां दुरनुचरत्वं भावनीयमिति। धूयते च शास्त्रेषूपासकादिषु शतककामदेवारहन्नकादीनां श्रमणोपासकानामपि सतां देवादिकृतेषु महोपसर्गव्रजेष्वपि दुष्करतयाऽनुव्रतादीनामनुचरणमिति। सत्यप्यणुवतादोनां साधुगणोह्यमानमहाव्रतमेवपेक्षया सर्षपोपमत्वाल्लघुतरत्वे 'वयभंगे गुरुदोसो. थेवस्सवि पालणा गुणकरी उत्तिवचनाल्लघुतरस्यापि श्रमणोपासकधर्मस्य देशसर्वभङ्गरूपायां विराधनायां भङ्गसम्भवाद्दारुणत्वं, तत आहुः'भंगे दारुणतं'ति / कामदेवादिष्वध्ययनेषु स्पष्टतया देवराख्यातमेव देशविरतानामपि तेषामातरौद्रध्यानादिपातित्वादिना भने देशविरतेरपि दुर्गतिगामित्वादि / श्रूयते च द्वादशव्रतधारिणोऽनशनविधिना कृतकालस्याभीचेविहाय नियतां सम्यग्दृशामपि भाविनी वैमानिकतां भवनपतिवेवोत्पत्तिरिति योग्यमुक्तं लघुतराणामप्यणुबतादीनां भने दारुणत्वमिति / जैने हि शासने स्तोकाया अपि प्रतिज्ञाया विराधने दारुणत्वं सम्मतं, तेन मुहूर्तमात्रप्रमाणेऽपि नमस्कारसहिते प्रत्याख्याने पञ्चोच्छवासमात्रेऽपि कायोत्सर्गे साकारतोदिता, कारणं तु तत्राल्पाया अपि प्रतिज्ञाया निराबाधपालनस्यैव गुणकरत्वमेव / एवं च सत्यणुव्रतादीनां भने निर्विवादमेव दारुणत्वं, तत एव च जातायां धर्मगुणप्रतिपत्तिश्रद्धायां तेषामणुव्रतादीनां प्रतिपत्तः प्रागेव भङ्गस्य दारुणताचिन्तनं योग्यमेव / ननु प्रतिपन्नानामणुवतादीनां भड्ने कथं दारुणत्वं किं भङ्गजन्य तदन्यथा वेति / आये, ननु राजाभियोगादयो भङ्गरूपा आदित एव सम्यक्त्वादिषु अनाभोगादयश्च नमस्कारसहितादिषु उच्छ्वसितादयश्च कायोत्सर्गादिषु व्रतादिग्रहणकाल एवानिवार्यतयाऽवस्थाप्यन्त एवेति, अणुवतादीना तु प्रकृतिसुन्दरत्वादिना पालि. तानां महालाभहेतुतैव स्यादिति। कथं भनेऽणुवतादीनां दारुणत्वमिति आशङ्कयाहुः-'महामोहजनकत्व'मिति, अत्र 'भने' इति पदं पूर्वसूत्रादनुवर्तनीयमिति / तथा च न स्वरूपतो मङ्गस्य दारुणत्वं, स्वयमेवाकारादीनां क्रियमाणानां दारुणताप्रसङ्गात्, न च प्राक् पालितानामणुव्रतादीनां पश्चाद् दणित्वं जायते, प्रकृतिसुन्दरत्वादिधर्मरुपेतत्वात्तेषां, परं विश्ववैचित्र्यमेतत् स्वभावो जगत एष, यदुतै धर्म प्रतिपद्य विशुद्धतमयारीत्या पालयिAC Gunratnasuri M.S. Jun Gun Aaradcake This P