SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ता मुच्यते इति परमार्थसाधकत्वभावनमावश्यकतममेव, अन्यथा परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशः सर्वविरतीनामिव देशविरतीनामपि प्राप्तिर्जातपूर्वा, न च ताभिः काचित्कार्यसिद्धिरिति / अत्रेदमवधेयं यदुत-परमार्थसाधकत्वदृष्ट्या गृहीता देशविरतयो या अष्टाभिः सिद्धिपदं दद्युः, ताः परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशो गृहीताः बतारः >>OOOOOOONG पञ्च सूत्र // 17 // या द्रव्यता दिनेकपायानरर्थक्य ना मावश्यकतममिति / अत्र यत् कैश्चिदुच्यते यदुत-सर्वा अपि सम्यक्त्वस्य देशविरतेः सर्वविरतेश्च क्रिया अभव्यैर्भव्यैश्च जीवैरनन्तशो विहिता, न च कोऽप्यर्थस्ताभिनिष्पन्नस्ततो व्यर्थमेव तत्क्रियाकरणमिति। तैः प्राकावदेतावद्विचार्य यदुन-सम्यक्त्वादिक्रियाणामानन्त्यापेक्षया संसारे सर्वैः प्राणिभिः सह सर्वैर्जीवैः सर्वे माता-. पित्रादिसम्बन्धा अनन्तगुणा अनन्तशो लब्धा इति ते कथं न त्यज्यन्ते। किञ्च-द्रव्यतोऽपि कृता याः सम्यक्त्वादिगताः क्रियास्ताभिरवश्य सुरलोकादि तु दत्तमेव, सांसारिकक्रियाभिश्चानन्तशो नरकतिर्यग्गत्यादिषु महावेदनाः अनुभूता इति, प्रागनुभूतसांसारिकफलापेक्षयाऽपि सांसारिकीक्रिया आरम्भपरिग्रहविषयासेवनक्रोधादिकषायरूपा अवश्यं परिहणीया, द्रव्यतोऽपि अनन्तशो दत्तपूर्वसुखाः सम्यक्त्वादिक्रिया पवादरणीया इति न किं सुधीभिः पर्यालोच्यते ? / अपि च-विपिनेऽकृष्टायामनुप्तवीजायां च भूमौ सर्वदा जायमाना वृष्टिस्तृणान्येवोत्पादयति, न कणळेशमपि, दृष्ट्वा चंवं किं कर्षका वृष्टीनां नैरर्थक्यं गणयन्ति ? / यथा च ते तादृशायामपि वृष्टौ कृषेरभावाद्वीजाना वपनाभावाच्च न जाता शस्यसम्पत्तिरिति यथावद्विदित्वा कृष्टौ वापे च यतन्ते, तथा भव्यजीवा अपि जान. न्त्येवं यदुत-न उप्तमेतावत्यपि बोधिबीजं, तेन न मोक्षशस्यसम्पत्तिर्जाता, अधुना तु जिनवचनेन कृष्टायामात्मभूमौ बोधिबीजमुप्यते, तेन सम्यक्त्वादिक्रियारूपावृष्टिरनर्गलां मोक्षशस्यसम्पत्ति करिष्यतीति। ततश्चावश्यमणुवतानां क्रियारूपाणामपि प्रोक्तन्यायेन परमार्थसाधकत्वमस्ति। ततश्च तद्भावनीयमेवेति धर्मगुणप्रतिपत्तिश्रद्धाप्रभावेण। एवं प्रतिपत्स्यमानानामणुवतादीनां प्रकृत्यादिसुन्दस्वादिके भाविते शेषाणामप्युपयोगिनांभावार्ना भावनार्थमाहुः'तहादुस्णुचरतं' ति, यद्यपि महाव्रतानांतीक्ष्णतरासिधाराग्रंक्रमणतुल्यता ततश्च तेषां लोकलोकोत्तरानुमतं दुरखेंचरत्वं गीयत एव, परंतत् श्रमणसमुदायगतं महावतानां यहरनुचरत्वं,तत्सर्वसत्यागस्य दुष्करत्वात् अस्नानलोचादिकायाः श्रमणक्रियायाःदुरनुष्ठेयत्वात्।यच्चाणुवतानां दुरनुचरत्वं कथ्यते तत्संसारवासलीनानामारम्भंपरिग्रहमग्नानां विविधप्रकाराचारविचारव्यह // 27 // ATAc. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy