________________ 82 भागमोद्धारककृतिसन्दोहे किश्च सदाऽमयदेवा जिनेश्वरा बुद्धिसागराश्चाऽऽसन् / जावालिपुरे यस्मात् तत्र कृतं ग्रन्थयुग्मं तैः / / 10 // श्रीमजिनेश्वराभयदेवाभ्यामष्टकस्य सद्ध त्तिः / श्रीबुद्धिसागरेण च व्याकरणं संस्कृतं नव्यम् // 11 // तत्तद्ग्रन्थान्त्यभागे वर्षाङ्कः स्थानसंयुतो दिष्टः / स्पष्टः सत्यप्येवं यदन्यथाख्यानमेतत् किम् // 12 // परीणां प्राग्दीक्षाऽमयदेवानां बभूव तत्कालात् / यत्वसमञ्जसमथनं तद्ध्यान्ध्यं ज्ञेयममितमिह // 13 / / दुर्लभराजा नाभूत्तदा नृपः पत्तने यतस्तस्य / दशशत्यां सप्तसप्तत्यां पएमास्यां च्युती-राज्यात् // 14 // संवेगरङ्गशाला कुना रमाला जिनेन्दुपरिवरैः / स्थानाङ्गादिविवरणान्यभयमुनीन्द्रनिबद्धानि // 15 // सुरसुन्दर्याश्चरितं बुद्ध्यम्बुधि-चरणकमलभृङ्गममैः / अल्लोपाध्यायपदैरचितं तद्वर्षतः पश्चात् // 16 // एवं श्रीवीतरागनुत्यनुयोगं गुरुः प्रभानन्दः / चक्र परं न क्वापि खातरविरुदस्य गन्धोऽपि // 17 // न जिनेश्वरैर्न तदनुगमुनिधुबिरुदमुक्तमेतद्धि / मुक्त्वा खररटनपरान् खरतरगच्छात्मजान कैश्चित् // 18 // द्रोणाचार्यैः शुद्धिवृत्तीनां कारिताऽङ्गवृन्दानाम् / प्राचार्यामयदेवने स्यात् सा है: समं क्लेशे // 19 // P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust led by CamScanner