________________ भागमोद्धारककृतिसन्दोहे समानयोगेऽप्यसमानभावा, निमित्तयन्त्यत्र तु पाठकाद्याः॥ आरोग्यहान्याऽनुगतः कदाचिद्, रुजातुरत्वमशुभोदयेन / तत्रापि वैद्यौषधसेवकानां योगोऽप्यदृष्टोत्थप्रभावरूपः // 20 // वैद्या अनेके बहवोऽप्युपायाः सेवापरा नैक इहाश्रियन्ते / यदा यतो यत्र यथैव वेद्यं, तथैव ते सर्व उपाश्रयन्ति // 21 // वणिकक्रियायामपि वर्तमाना, लाभान् परेभ्य इह संश्रयन्ते / तान् ये स्वकर्मापगमाश्रिताः स्युः, सर्वत्र सर्वे न समानलामाः सल्लाभबुद्धया नृपसंसदङ्गताः-पदान्यमात्यादिगतान्यवापुः / तत्रापि लाभास्तु मनीषिणां स्युः, स्वम्ममाना नृपमुख्यदत्ताः। कर्षकत्वमुखचित्रविधासु, विविधहेतुधरा जनता स्यात् / सापि कर्मफलमनुगच्छति तद् यत्, स्वकर्मफलमनुगतिमत् स्यात् // 24 // कौटुम्बिके वृद्धगते च भावे, प्राप्येत तद्यत्स्वक-लाभयोग्यम् / परापरेभ्यो मतिमांस्तदित्थं स्वकर्मसाम्राज्यमबाधमेयात् / / इत्थं सर्वावतारे विविधविधिभरे वेद्यमाने विवित्रे. दुःखे सौख्ये च तेस्तैर्विविधमतिकृतिप्राप्तभावैः सुवेद्यः / ‘जीवाः सर्वेपि सर्वावधिमतिसहिताः स्वीयप्राकर्मजातं, गच्छन्तीमे न कुत्राप्यभिभवपदवी निनिमित्तं लभन्ते // 26 // इत्थं विदित्वा सुकृतेतराणां, सर्वत्र सौख्येतरसाधनानाम् / साम्राज्यमेकं विबुधाः श्रयन्तु तत्कर्म हेतु स्वकृति विचित्राम् / ॥इति कर्म-साम्राज्यम् / / P.P.AC. Gunratnasuri M.S un Gun Aaradhak Trust ned by CamScanner