________________ जिन-महिमा 卐 संयोगा विप्रयोगान्ताः-समग्रेणात्मनाऽनन्ता अन्वंशं वृद्धिहानितः सिद्धः सदाऽसि संयुक्तस्तद्योगो न वियोगभाक // 1 // सर्वाणि स्थानान्यशाश्वतानि-सिद्धः स्थानं त्वया प्राप्त-मचलं न चलिष्यसि / त्वमीश ! न च तजातु कथमेतदशाश्वतम् / / 2 / / यथा लाभस्तथा लोमो, लाभाल्लोमः प्रवर्धते कैवल्यं युगलं लब्ध-मप्राप्त भववारिधौ / विवर्धयिषुः किन्न तद् यदि लोभोऽस्ति लाभतः // 3 // जातः सिद्धिगतौ नैव च्योष्टाऽस्यास्त्वं कथं पुनः / ___ पुनर्जन्म पुनमृत्युरिति सत्यं वचस्तव // 4 // ध्र वा जनिमृतस्या-सोस्त्वमृतो न भवे जनुः / तवेति कि. महर्षीणां स्वोक्तं स्वस्य न बाधकम् ।५।युग्मम आशक-चक्रिणं नित्यो विभवो नेति वचस्तव / ___ लाभः कथं तवेशाऽयं कैवल्यस्य सनातनः // 6 // दुःखरूपो दुःखफलस्तथा दुःखानुबन्धवान् / भवो विद्वत्प्रवादोऽयं सदानन्दाद् मृषा कृतः // 7 // कुलद्रोही प्रभुद्रोही मित्रद्रोही नरोऽधमः / / त्वं तु धर्मफल सर्व लब्ध्वा निर्णासितं ननु // 8 // P.P. Ac. Gunratnasuri M. Gun Aaradhak Trust ed by CamScanner