________________ श्रमण-दिनचर्या 36 सलिलाभावे तु जघन्यतोऽपि नियमेन पात्रनिर्योगः / आचार्यग्लानानामुपधिर्मलिनः सदा क्षाल्यः // 378 // आचार्याणां मलिनोपधिपरिभोगे ह्यवर्णवादः स्यात् / ग्लानानां तद्वसनप्रावरणेऽजीर्णतापत्तिः // 379 // सामाचारीमनिशं, संवेत यथाऽऽगमं यथास्थानम् / सा त्रिविधा स्यादोघे च, पदविभागे च दशधा च / 380| आया तत्रौघे स्यादिहोपनियक्तिजल्पितं सर्वम् / ओषोऽत्र हि सामान्य, तद्विषया माऽपि तद्र पा // 381 // प्रायश्चित्तविधिगता, या कथिता जीतकल्पसमयादौ / - सा पदविभागरूपा, सामाचारी जिनरुक्ता // 382 / / या चक्रवालसामावारी सा कालगोचरा दशधा / इच्छाकारो मिथ्याकारश्च तथा तथाकारः // 383 // आवश्यकी च नषेधिकी तथाऽऽपृच्छना भवेत् षष्ठी। प्रतिपृच्छाऽपि च तथा, छन्दनापि च निमन्त्रणा नवमी // उपसम्पच्चति दशविधा तत्राद्या यदिच्छया करणम् / न बलाभियोगपूर्वकमिच्छाकारप्रयोगोऽतः / 385 / संयमयोगे वितथाऽऽचरणे 'मिथ्येद मिति विधानं यत् / मिथ्यादुष्कृतदानं, मिथ्याकारः स विज्ञयः // 386 / / सरिबहुश्रतो नैष्टिकश्च यद्वाचनादिकं दत्तं / शिष्याय तथैव तदिति निश्चयकरणं तथाकारः / 387 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust led by CamScanner