________________ 28 आगमोद्धारककृतिसन्दोहे पात्रं प्रतिगृह्णामीत्येवं मुनिकुञ्जरं समापृच्छय / उच्चार्य नमस्कारं, प्रकाशदेशस्थितोऽश्नाति // 269|| संयोजनाप्रमाणाङ्गारा धूमश्च हेतवः षट् षट् / / इति पञ्चविधा ग्रासैषणा मता भोजने तत्र / 270 // संयोजनोपकरणेऽन्नपानयोगश्च क्रमेण पहिरन्तः / द्वात्रिंशत् कवलाधिकभुक्तावधिक प्रमाणं स्यात् / 271 / कवलानां मानमिदं, यो द्वात्रिंशत्तमो भवेद्भागः / निजकाहारस्य तथा, यो वाऽविकृते मुखे विशति / 272 / रागेण सरसमास्वादयतश्चारित्रमत्र साङ्गारम् / भुञानस्यानिष्टं, द्वषेण सधूमकं भवति // 273 / संयमवृद्धये वैयावृत्त्यर्थ वेदनाधिसहनाय / ईर्याशुद्धयर्थं प्राणवृत्तये धर्मचिन्तायै / / 274|| इति हेतुषटकतोऽद्यान्न चापि भुञ्जीत हेतुभिः पड्मिः / - रोगोपशमनिमित्तं, राजाद्य पसर्गरक्षार्थम् / / 275 / / तुर्यव्रतरक्षायै वर्षासु जन्तुपालनकृते च। तपसे सन्न्यासादौ, तनुव्यवच्छेदनार्थ च // 276 / / प्रथमप्रहरातीतं, यतिनामशनादि कल्पते भोक्तुम् / आयामत्रयमुपरि तु कालातिक्रान्तता नस्य // 277|| तापक्षेत्राभावे, यदात्तमशनाद्यनुद्गते तरणौ।' तद्धि क्षेत्रातीतं, न युज्यते जेमितु यतिनाम् / / 278 / / P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner