________________ भागमोद्धारककृतिसन्दोहे हुण्डे चरित्रभेदः, शबले मतिविभ्रमो भवेत्पात्रे / ____ अन्तर्बहिश्च दग्धे, मृत्यु तस्मिन् विजानीहि // 249 // पयोत्पले त्वकुशलं, व्रणं पुनः सव्रणे विनिर्देश्यम् / __ स्थानं न गणे चरणे, चतुष्पदे स्थाणुसंस्थाने // 250 // सौवीरमम्लकणधावने तथोष्णोदकं च गृहणीयात् / वर्णादिभिः परिणत, प्रासुकनीरं च तदभावे // 251 / / उष्णोदकं त्रिदण्डोत्कलितं पानाय कल्पते यतिनाम् / ग्लानादिकारणमृते, यामत्रितयोपरि न धार्यम् // 252 // तद्धि प्रहरत्रितयाचं वर्षासु चेतनीभवति / शिशिरे यामचतुष्कात्पश्चप्रहरोपरि ग्रीष्मे / / 253 // संसृष्टाऽसंसृष्टोद्धृताऽल्पलेपा तथोद्गृहीता च / प्रगृहीतोज्झितधर्मा चैताः पिण्डैषणाः सप्त // 254 // तत्र खरण्टितमात्रकहस्ताभ्यां भवति भङ्गकचतष्कम् / तस्मिन् भङ्गषु त्रिषु, संसृष्टाऽन्या त्वसंसृष्टा // 255 / / भोजनजाते गृहिणोद्धृते स्वयोगेन तूद्धृता भिक्षा / निर्लेपवल्लचणकादिकदानादल्पलेपा स्यात् // 256 / / भोजनकाले निहिता, शरावमुख्येषु सोद्गृहीता स्यात् / प्रगृहीता यदशितु प्रदातुमथवा करे कुरुते // 257 / / यन द्विपदप्रमुखाः, काउ क्षन्त्यथवा भवेत् परित्याज्यम् / अर्धत्यक्तं यदि वा, सोज्ज्ञितधर्मा भवेद् भिक्षा // 258 // भवति भजन भोजन मन भङ्ग P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner