________________ श्रमण-दिनचर्या 1530 श्रृङ्गस्थाने कलहः, स्थानं चरणेषु न भवति यतीनाम् / उदररुजाऽधिष्ठाने, पुच्छे तु स्फेटनं विद्धि // 239 / / मौलो ककुदे पूजासत्कारावानने प्रभूतान्नम् / | उदरे धाणिः स्कन्धे, पृष्ठे च भरः क्षमो भवति // 240 / यत्र मुनिकृते क्रीतं, न वायितं यत्परस्य न गृहीतम् / प्रामित्यमभिहृतं च, त्यक्त्वा वस्त्रं मुनेरहम् / / 241 // वस्त्रे च खञ्जनाञ्जनकर्दमलिप्त विकुट्टिते जीर्णे / मूषकजग्धे दग्धे, जानीहि शुभाशुभं भागैः // 242 / / कृतनवभागे वस्त्रे, चत्वारः कोणकास्तदन्तौ द्वौ / __ तत्कर्णपट्टिके द्वे, मध्ये वनं (वस्त्रं) भवेदेकः / 243 // चत्वारः सुरभागास्तेषु भवेदुत्तमो मुनेर्लाभः / द्वौ भागौ मानुष्यो, भवति तयोर्मध्यमा लब्धिः // 244 / द्वावसुरौ च भागौ, ग्लानत्वं स्याद्यतस्तदुपभोगे। | मध्यो राक्षससङ ज्ञस्तस्मिन्मृत्यु विजानीहि // 245 / / मूल्यमनगारवस्त्रस्याष्टादश रूपका जघन्येन / / उत्कर्षेण तु रूपकलक्षं स्यान्मध्यमं शेषम् // 246 // तुम्ममयं दारुमयं, पात्रं मृत्स्नामयं च गृहणीयात् / यदकल्प्यं कांस्यमयं, ताम्रादिमयं च तत्याज्यम् // 247), वर्णाढ्य ज्ञानं सुप्रतिष्ठिते पात्रके प्रतिष्ठा स्यात् / व्रणरहिते कीर्तिःकल्यता मता संस्थिते लाभः / 248 // P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust