________________ आगमोद्धारककृतिसन्दोहे तत्तद्गुणमात्मानं, वदतो जातिकुलकर्मशिल्पतया / याऽऽजीविका मुनेत्र, पञ्चधाऽऽजीवपिण्डोऽसौ // 188 / श्रमणादिभक्तगृहिणां, पुरतस्तद्वर्णनादिना मुनिना / यो याच्यते स पिण्डोऽप्युक्तोऽत्र वनीपकत्वेन // 189 / / भैषज्यवैद्यसूचा, सूक्ष्मैकाऽन्या स्वयं भिषग्वचनम् / एतद्विधचिकित्सालन्धेः पिण्डोऽपि तद्र पः // 19 // शापादिक्रोधफलं, ज्ञात्वा यो दीयते भयाद् गृहिणा / मुनये तद्ध तुतया, क्रोधाभिख्यः स पिण्डोऽपि / 191 // एवं स मानपिण्डो, यस्मिन् गृहिणं तथा चटापयति / मुनिरभिमानेन यथा, दत्तेऽनिच्छत्यपि सुतादौ // 192 / / यत्परवञ्चनहेतोः, कत्वा रूपान्तरादिकं साधुः। / अर्जयति मोदकाद्य, मायाहेतुः स पिण्डः स्यात् / 193 / स तु भवति लोभपिण्डः गृद्धया यल्लभ्यते रसोपेतम् / यद्वा खण्डादिपयःप्रभृतिकसंयोजनाहेतोः // 194 // एषु च घृतपूरक्षपकसेविकाक्षुल्लको कषायेषु / ज्ञातान्यार्याषाढश्च सिंहकेसरमुनिः क्रमतः // 195 // द्वेधा संस्तव उक्तो, वचनात् सम्बन्धतश्च तत्रायः / गुणवर्णनरूपोऽन्यो, जननीस्वस्त्रादिकल्पनया // 196 / / एकैकोऽपि द्विविधः, पूर्व पश्चाच तत्र पूर्व सः। यत्पूर्वमेव देयेऽलब्धे गुणकीर्तनं क्रियते // 197 // P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner