________________ श्रमण-दिनचर्या एतद्विपरीतोऽन्योऽथ पूर्वसमन्धिसंस्तवस्त्वेवम् / यन्मात्रादेः कल्पनमितरः श्वश्वादिकल्पनया // 198 / / विद्या जपादिसाध्या, प्रज्ञप्तिप्रमुखदेव्यधिष्ठाना / अक्षररूपा तस्याः, प्रयोगतो भवति तत्पिण्डः // 199 / / एवंभूतो मन्त्रोऽप्यधिष्ठितः पुरुषरूपदेवतया / सिद्धश्च पठनमात्रात्तदर्जितो मन्त्रपिण्डः स्यात् // 200 / / * नयनाञ्जनादिरन्तर्धानादिफलो निगद्यते चूर्णः / __ सौभाग्यादिविधायी, योगः पादप्रलेपादिः // 201 / / एतद्व्यापारणतः, सम्प्राप्तौ योगचूर्णपिण्डौ स्तः / बहिरुपयोगी चूर्णो, योगो बहिरन्तरुपयोगी // 202 / / मूलमित्र संसृतितरोः, कर्म तु सावद्ययोगकरणं चे / गोधानस्तम्भनपाताधमूलकम स्यात् // 203 // तत्करणेन प्राप्तः, पिण्डोऽप्येवमिति दोषषोडशकम् / इत्थं गवेषणायां, द्वात्रिंशन्मीलिताः सर्वे // 204 // अथ शङ्किताख्यदोषो, मेक्षित-निक्षिप्त-पिहितदीपाश्च / संहृत-दायकदोषावुन्मिश्रोऽपरिणतो लिप्तः // 205 / / छदित इति दश दोषास्तत्राहारादि दीयमानं यत् / ___दृष्ट्वा प्रचुरं शङ्कितमाधाकर्मादिदुष्टतया // 206 // . ग्रहणेऽपि शङ्कितो भोजनेऽपि चेत्यादिभङ्गकचतुष्कम् / . यच्छङ्कते तमाप्नोति त्रिषु चरमस्तु शुद्धः स्यात् / / 207 / / P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust