________________ श्रमण-दिनचर्या स्वार्थारब्धे पाकेऽधिकतरतन्दुलादि यत् क्षिपति / आश्रित्य यावदर्थिकयनिपाखण्डिकसमागमनम् / / 178 / / सोऽध्वपूरकदोषोऽमी दोषाः षोडशोद्गमाभिख्याः / पिण्डोत्पत्तिमिहोद्गममाहुस्तद्गोचरा एते // 179 // भेदैर्धात्रीत्वादिभिरुपार्जनं मूलशुद्धपिण्डस्य / ___ उत्पादनोच्यते तद्विषया दोषा यतिकृताः स्युः // 180' / धात्रीदतीनिमित्ता३ऽऽजीव ध्वनीपका५श्चिकित्सा६च / क्रोधोअथ मानविषयोटमायापिण्डश्च नवमः स्यात् / / लोभश्व१० पूर्वपश्चात्संस्तव 11 विद्य १२च मन्त्रचूर्णौ च१३-१४ / योगो १५ऽथ मूलकर्म च, षोडश दोषा इमे तत्र // 182 धात्रीपिण्डोऽसौ यल्लभते साधुविधाप्य कत्वा वा / बालस्य पयोमजनमण्डनरमणाङ्कधात्रीत्वम् / / 183 // यस्तु मिथः सन्देशं, कथयित्वा प्राप्यते निजे ग्रामे / मुनिनाऽन्य ग्रामे वा, दृतीपिण्डः स विज्ञेयः // 184 / दती त्वेका प्रकटा, प्रच्छन्नाऽन्या द्विधा द्वितीया स्यात् / लोकोत्तरविषयाऽऽद्या, द्वितीयसाधोरपि च्छन्ना // 185 / / या तु द्वितीयसांघाटिकसाधोरपि जनस्य च च्छमा / द्वतीयिका भवति सा लोकलोकोत्तरच्छन्ना // 186 // सुखदुःखादिकविषयेऽतीतादिनिमिचकथनतः साधुः। आवर्जितात् जनाद् यल्लभते स निमित्तपिण्डः स्यात् / / P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner