________________ श्रमण-दिनचर्या अत्र मुनिदानसमये, परतो गर्भकादि भोजयति / कुरुते परतोऽर्धाग्या, लग्नं गुर्वागमनसमये // 158 / / प्रादुष्करणं द्विविधं, प्रकाशनं प्रकटनं यदशनादेः। साध्वयं छिद्रगवाक्षदीपमण्यादिभिः प्रथमम् // 159 / / प्रकटीकरणं त्वपरं, चुल्लयादेर्यस्य वा बहिष्करणम् / संतमसि गृहे यतीनां, चक्षुर्विषयं भवति येन / 160 // क्रीतं चतुर्विधं तत्रात्मधनक्रीतमिह परस्माद्यत् / - आवयं तीर्थशेषाद्यर्पणतो गृह्यते वस्तु // 161 / / आरं तदात्मभावक्रीतं परिगृह्यते यदाक्षिप्य / स्वयमेव धर्मकथनादिरूपभावेन भक्तादि // 162 / यद् गृहिणा साध्वर्थ, सचेतनाचित्तमिश्रभावेन / क्रीतं भक्तादि परद्रव्यकीत तृतीयं तत् / 163 / / तत्परभावक्रीतं, यन्मङ्खादिः परो मुनिनिमित्तम् / . आवयं जनं गृहणाति, निजकलारूपभावेन // 164 // आदाय यत्परस्मादुद्यतकं दीयते यतिजनाय, . - अपमित्यं तत्प्रामित्यं वा दोषस्त्वयं ज्ञेयः // 165 / स्थानद्विगुणिकया किल, कस्याश्चित्तैलकर्षमुद्यतकम् / / आनीय काऽपि मुनये, दवा निःस्वाऽऽप दासत्वम् / / परिवर्तितं यदाज्यादि द्रव्यं साधवे परावर्त्य / " तद्व्यान्यद्रव्यैर्दत्त दोषोत्र कलहादि // 167 / / P.P. Ac. Gunratnasuri M. un Gun Aagadhak Trust ed by CamScanner