________________ जनगीता। प्राणातिपाताद्विरतिः श्रुतोक्ता, भावी घधो नैव च जीवतत्त्वे / / भाधान्वितेषु प्रलयोऽत्र दृश्य-स्तक्तमेतद्धयभिधानमस्य -- // 30 // अतः प्रयुक्तं श्रुतवारिराशौ, शुद्धः पदं प्राणवधानुसृत्या / नो चेत्समग्रेऽपि समानभाचे जीवे हते स्यात् कथमंहसां भिदा ? // 31 // पुण्यानां निचयः क्षयोपशमिताऽनन्ता च चेदात्मनि, ___स्याद्वृद्धिः करणस्य सन्ततिगता स्पर्शादिकं संश्रिता / तन्नाशे सकलं बलं विलयितं तज्जीवगं हन्तृभि रेवं च गृहिणां सेषु विरतिः शोभास्पदं गीयते // 32 // शाघायां ननु जङ्गमेपु विरतेः स्यात् स्थावराणां वधे, साधूनामनुमोदना भयवती त्यागस्त्वमीषां यतः / सर्वस्थावरजङ्गमाङ्गिविषयो ( हनने ) यावद्भवं सर्वथा, स्याञ्चषाऽनुमतिस्ततश्च विरतेर्भङ्गोऽतिदुःखावहः // 33 // श्राद्धाः किं त्रसराशिसङ्गतवधं स्वीयेन तन्त्रेण ते, प्रत्याचख्युरुताऽनगारसमीपे द्वेधाऽपि नाहँ त्विदम् / .. यस्मात् स्याद् व्रतधारणं गुरुमुखान्नैव स्वयं साधनं, .. तब स्यादनुमोदना स्थिरवधे दुष्टा गुरूणामपि // 34 // सत्यं चेद् गुरवो दिशेयुरखिलं घातं प्रतिज्ञोचितं, नो प्राक् तत्प्रथमात् परं यदि तके प्राहुः पुरस्तस्य चेत् / __ त्याग स्थावरजीवगे पहनने स्युस्ते तदा दोपिता, . आदावस्य समर्थने न शकितस्तत्कर्तुमल्पोद्यमः // 35 / / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust