________________ जैनगीता। आश्रवाः समुत्थिता अघोदयात् , केचन क्षयमुखोद्भवा अपि / ' संवराश्चरणमोहनाशजाः, बन्धनं शमादिमोहजं पुनः / , नु भावमाश्रयेत्तपरित्वदम् // 33 // चरणमोहनाशतस्तपो ननु स्थायि यत् शिवे पदेऽघभावतः / नोदितं ततोऽद आर्यसत्तमै-हेतुकार्यहानितः शिवाध्वनि // 34 // जैनो मोक्षाध्वयायी न च भवरतिमान् चारके यद्वदाढ्यः, क्षिप्तो निस्सर्तुमिच्छेद्विविधविधिपरस्तदेषोऽपि नित्यम् / कर्मान्दोभञ्जनाय सततमुदितधीः संवरे निर्जरायां, बुद्ध्वा मोक्षाप्तिवीजं सरति तप इदं निर्जरानन्यहेतुम् // 35 // इति सप्तदशोऽध्यायः / अष्टादशोऽध्यायः / (मोक्षाधिकारः) जैनो यः स्पृहयेन्ननु सदा मोक्षाय संवेगभाग , निर्विण्णो भवचारकात् करुणया सिक्तो द्विधा दुःखिपु / / आस्तिक्यादिगुणान्वितः स्वरमणः शान्तारपदं निस्तुषं, . भक्त्यहाँ गुणकाक्षिणां शिवकृते स्वर्गादितुच्छं फलम् // 1 पर्यन्तभागे गदितोऽयमाप्तैः, परं तदाप्तेन हि संश्रवाः किल / तदाश्रिता नैव परेऽपि भावाः , सनातनो मोक्ष इतः शुभं न वै // 2 अनन्तविज्ञानमनन्तदर्शनं, सातं ह्यनन्तं निजरूपजातम् / / अनन्तसम्यक्त्वमनन्यरक्तिं, समग्रशक्त्याव्यमजं यजेत् सदा // 3 HILLILITIE P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust