________________ जैनगीता। न जीवने स्युः प्रतिबद्धभावा, यथायुरेवाणनमङ्गिनां यत् / क्षणो हि धर्मस्य परं दुरापो, मत्वेति रत्नत्रितयावधानाः // 23 // भाव्यं समैः सद्धदये रिपौ च, स्त्रैणे तृणे चाऽश्मसुवर्णयोः पुनः / भवे च मोक्षे च विभाव्य मार्ग, संवेगवैराग्यपरं निजेप्सितम् // 24 // परे समस्ताः प्रसृता हि धर्मा, वदन्ति दौर्गत्यगमोदितानि / दुःखानि वैराग्यकराणि जैन-श्चतुर्गतीनां तु भयानि वेत्ति // 25 // बिभेति सर्वोऽपि भवाश्रितोऽङ्गी, मृतेन सोऽपैति भयाद् विभीतः / सम्यक्त्ववास्तूज्जननाद् यतस्त-निवार्यमेतच्च विना न मृत्युः // 26 / / ध्येयं सदैतत्परिसंवृतानां, कदा ह्यसङ्गो दध (वस) दल्पवासः / मलाक्तदेहो भ्रमरोपमानां, चर्चा कदा सद्गरुसंश्रितं श्रये // 27 / / सदा श्रियै गुरोः कुले निवास आर्हते मते, गणाधिपास्तथाविधा अपि श्रुतं पदं जगुः / अभिन्न एव तद्वहिर्गतैस्तु मोहतस्कर स्तदाश्रयाश्च तद्विधास्ततो गुरोः कुलं श्रयेत् // 28 // यद्यपि देहो गुणकुलयुक्तो, मोक्षपदावह उक्तमुनीनाम् / तदपि निराबाधं पदमेतुं, व्युत्सृजतीह समं मुनिरन्ते // 29 // आजीविताद्धर्मपरो हि जैनो, रत्नत्रयाराधनया कृतार्थः / / तत्त्वत्रयीं मानसकोशदेशे, सदा दधत् प्राप्स्यति शाश्वतं पदम् / ( मग्नः सदानन्दपरे समर्च्यः ) // 30 // इति पञ्चदशोऽध्यायः / P.P.Ac..Gunratnasuri M.S. Jun Gun Aaradhak Trust