________________ जैनगीता। ततोऽवधानमाप्यतां सदाऽऽश्रवावरोधने, . न तद्भवेद्विनाऽऽश्रवावधानमन्तरा पुनभवेत्तु तच्च शास्त्रकृयदाऽऽश्रवान् विबोधयेत् ... // 15 // अकामनिर्जरागुणाल्लंभन्त आर्यमार्गगा, उदित्वरां दशां न सोऽन्तराभवप्ररोधिताम् / क्रमाच्छमित्वमाप्यते ततः परम्परा शुभा, ततोऽवमान्यते बुधैर्न भिन्नताऽऽश्रवाश्रिता // 16 / / भवेन्नरोऽत्र धर्मभाग् यदीष्टमार्गमागतो, निरोधने सदोद्यतो वधादिसङ्गताश्रवात् / जिनोऽप्यशेषबोधवान् सुदीर्घकालरोगयुग्, . न चान्ध आत्तवान् विकर्मिकं दयोद्यतः खलु // 17 // आश्रवे पुराणकर्म जन्तुना निकाच्यते, हस्वकालमियते प्रदीर्घकालभाविताम् / महारसं नयेत्परं बहुप्रदेशमल्पकं, .. . यतो निरोधनेऽस्य. तु प्रधारयेद्विपर्ययम् // 18 // जीवोऽनीशोऽयमात्मप्रतिनियतविधौ सौख्यदुःखैकहेतौ, .. प्रेयोऽसावीश्वरेणाशुभशुभकृतये हीत्थमाहुः कुतीर्थ्याः / तेषां वार्ताऽऽश्रवाणां न भवति सुखदा कर्णयोः श्राव्यमाणा, स्यादेषा कर्णरन्धेऽमृतरसतुलिता येन दासत्वलीनाः . // 19 // यथाऽऽतुरो वैद्यनिवारितोऽपि, जानन्नपथ्यं परिहर्तुमिच्छुः / रसेप्सुरत्त्यन्ध उदस्तवीर्य-स्तथैव जीवः सुखकाम्यघेषु // 20 // P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust