________________ जैनगीता। हेतुकार्यभेद एव चेत्तदा न ; संशयो, .. न जैनमार्गगा नराः श्रयन्ति जातुचिद् बुधाः // 9|| न चास्ति जन्तुजात एष एक एव सम्भवो,... यतोऽङ्गिनां क्षणं क्षणं नवा नवाऽस्ति भावना / भवन्ति वीर्यशालिनोऽङ्गिनोऽहमार्गगाः परं, पुरातनं घनं विनाश्य कुर्वतेऽल्पमेव तत् // 10 // प्रहश्यतेऽबुधोऽपि विज्ञसङ्गतो बुधीभवन् , प्रजायते जडोऽपि बुद्धिमाननिष्टसङ्गमात् / यदा तु कर्मबन्धनानुसारि कर्म नूतनं, .. . तदाऽखिलोऽपि धर्मवाह ईक्षणीयो मुधोदितः / // 11 / / विज्ञैः सदाऽन्तरमुखैरुदयागताना, प्राकर्मणां प्रतिपदं क्रियते निरोधः / आचर्यतेऽघहतये विविधो हि धर्मः., .. सर्वं तदेव पृथगात्मकता द्वयोश्चेत् // 12 // ज्ञानादिघातकरणप्रवणां हि योगा, ज्ञानादिघासकरसप्रभृतीन् दधानाः पूर्वं कृतं दुरितमाप्तचयं दुरन्तं, कुर्वन्ति तत् पृथगिदं मतमाश्रवाख्यम् / [ हेतुममुमाश्रयते पृथक्त्वम् ] // 13 / / मुक्तये जिनोपदेश आश्रवेभ्य उत्सृतो, ' संवरोऽथ तद्भवः क्षयोऽथ कर्मणां ततः / : तदेवमाप्यते यदा तु बन्धशून्यताऽखिला, :::.' पुराणकर्मनिर्जरा तदाऽव्ययं पदं भवेत् / - // 14 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust