________________ जैनगीता। / नवमोऽध्यायः / ( तपोऽधिकारः) .. ज्ञाता जीवा अजीवाः परिहृत उदितस्त्वाश्रवाणां समूहः, साधित्वा संवरांस्तं नवतरमरुणद् बन्धमार्हन्त्यलीनः / यावन्मोक्षं प्रयातुं हृदयमभिसरत्यन्तरा कर्मजालं, प्राग्बद्ध विद्रवेन्मां न खलु मयि तपस्तत्क्षयाहँ यदि स्यात् // 1 // जीवोऽस्ति नैव, नहि यः क्षपयेदघानि, कर्माणवो यदुदयं सततं प्रयान्ति / . निर्जीयतेऽघमुदितं भविनां मता सा.., . . कामा, न. सा खलु शुभायतिराप्तमार्गे // 2 // * तत्रापि योऽल्पमुपचित्य बहु क्षिणोति, सोऽभ्येति कर्मलघुताप्रभवां सुरूपाम् / काष्ठां ततः क्रमगतां तु यथाप्रवृत्तां, लब्ध्वाऽपि तां शममुपैत्यसुमान् कदाचित् // 3 // लब्धे शमे परत आचरतीह कश्चित् , शुद्धेः पदं तप इहात्मसुवर्णशुद्धथै / अत्रैव सा भवति कामयुता प्रशस्या, सन्निर्जराऽव्ययपदार्पणसाध्यरूपा . भूगुप्रपातादिकमाचरन्तो, दृश्यन्त उद्धारहृदो भवाब्धेः / प्रेत्यास्ति नैवाश्रयणं त्वमीषां, कुबोधजं बालनिमग्नचेतसाम् // 5 // उदाहृतं बालतपः शमादेः, प्राप्तौ बुधैहे तुतया यत्र / तदुत्सवांदिरिव साधनाप्तौ, क्षमं भवेऽनन्तश आहतं यत् // 6 // // 4 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust