________________ जैनगीता। ज्ञानस्याप्तैः सदेदं फलमभिलषितं सच्चरित्रं नराणा, ज्ञात्वेदं मा भवन्तु प्रवरगुणधराः सच्चरित्रेण हीनाः // 113 / श्रामण्यपर्यायमधिश्रिता या, सुखासिकोक्ता परिवर्धमाना। मासक्रमेणोपरता तु वर्षात्, तकां न बोधैकरतोऽश्नुते वै // 12 // ज्ञानं तु दर्शनयुतं त्रितये गतीनां, नैवास्ति तत्र परमं पदमिद्धरूपम् / मानुष्यके नियतमेतदवाप्यते तन्नोनश्चरित्रमहिमा जिनमार्गसारः // 13 // यद्यपि संवरभेदतयेदं, चरणं गदितं तदपि तपस्तत् / अधिसहनं तत्प्रतिपदमत्र, केवलमेव न तद् विरतिर्नु // 14 // गोत्रं नीचमपैति यच्चरणतो बन्धो भवेदुच्चकैः, प्राप्तौ तस्य गतोपमं जनततेर्मान्यत्वमभ्यागतम् / रकोऽप्यस्य यदादरात्तुलयति स्वं चक्रिणा सन्ततं, गोत्रं प्राक्तनमर्थकृन्न हि भवेच्चारित्रलक्ष्म्यावृते // 15 // तीर्थस्यातुल एष उर्जिततरो गीतः प्रभावोऽसमो, यत्सर्वोऽप्यधिकारवाञ्जिनपदेऽस्याऽऽराधनायाः स्फुटम् / / एषोऽहं जिनतामवाप रुचिरां तन्मे नतिस्तत्प्रति, तीर्थं तच्चरणान्वितो मुनिगणः शेषास्तमेवाश्रिताः // 16 // लोकानुभावजनितं चरणे महत्त्वं, ज्ञानं चतुर्थमुपयाति विना न यत्तन् / लोकेश्वरा अपि लभन्त उपेत्य चारु, वत्चत्समाचरतु जैनवरः सदा तत् // 17 // इति अष्टमोऽध्यायः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust