________________ आगमोद्धारककृतिसन्दोहे 207 . सक्षिप्ता यदि तन्निरूपणचणाः शब्दाः सदर्थाभिधाः , उक्तास्ते न तदा परस्परगति प्तागमानां क्वचित् // 55 / / सदागमाः ! किं भवतां महत्त्वं, तुरंगशृङ्गाणि यतो न यूयम् / ख्याथेष्टवर्गेऽन्यवचांसि यद्वन् , नित्यार्थमाना इति विज्ञवीक्ष्याः // 56 / / जिनं गणिं वृष श्रयन् भवी तपन् महातपः, सुपुण्यराशिसाधनोद्यतश्च कष्टमाश्रयन् / वचोतिगं न मुच्यते सदागमानृते ननु, (भवन्मता) यथार्थभावमाननाद्भवन्त इष्टसिद्धये जैनत्वं ननु सिद्धमागममतान् सिद्धाञ्जिनान् साधुपान् , पाठकयुक्तमुनीन् मनेद्यदि भवी देवान् गुरूँश्चादरात् / धर्मं चाश्रति प्रधानपदवी प्राप्तं सुदृष्टयादिकं, तत्सत्यं श्रितिरागमस्य जनतानिःश्रेयसे साधनम् // 58 / / // 57 // आगम आप्ततमो यदि विश्वे, विश्वविदा प्रणीतार्थपरः स्यात् / न च हित्वा कषभेदतपैस्तु, शुद्धिं सोऽश्नुत आप्तपदं तु // 59 / / परभवकरणिर्जनिमृतिहरणिनिजबलभरणिर्जगति परा, जिनपतिकथिता गणपतिदृभिता मुनिततिविनताऽऽगमविततिः। जन्मजरात चरमावर्ते नियतमनार्ते मानं तस्या, ... मत्वा विबुधा आगमसुबुधा गतसम्बाघा भजत सदा // 60 // शरणं शरणं व्रज व्रज शरणं जिनपागममपहतमरणं, ... हरणं हरणं बत बत हरणं सञ्चितदुर्गतदुरितततेः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust