________________ , // श्री आगम-महिमा // 1 आर्हन्त्यं शुभसाधनैरभिमतं कर्माऽपि बन्धे हितं, यच्च त्वं त्रितयं भवस्य भवनैर्गुण्यं विदन् शिष्टवान् / तन्नूनं महतां परार्थपरता सत्या परं सत्कला ऽसावाप्यामलकेवलं यदि भणेच्छ्रेणि सदाप्तागमीम् // 1 // प्राप्याऽशेषजगद्विलोकनपरं ज्ञानं निहत्याऽशुभा- या ऽदृष्टश्रेणिमपारसारवलयुक्श्रेण्या क्षपण्या प्रभुः / ... .. देवेन्द्रावलिसंहृतामतितरां--पूजामधिष्ठाय च, . .. कुर्वन्नागमसन्ततिं सफलताभाग् नान्यथा हि प्रभुः // 2 // पूजाप्रौढो जिनेशो न नमति निखिलाभीष्टसिद्धया कृतार्थो, देवालिप्राभृतं सत् सुकृततरुफलं सेवयन् कञ्चिदन्यम् / .. धन्यं तूदामधर्मा नमति मुनिगणं द्योतयन् स्वं कृतज्ञ, :.... यन्मेऽदः सन्जिनत्वं मुनिगणपधृतादागमादेव जातम् // 3 // सुरविसरसंस्तृतं मुनिमधुपमालितं सफलशरणदायिनं, नमत नम्रमौलयोऽधिकृतसत्फलोर्मयः सदागमालिदर्शिनम् / फलं जिनेन्द्रपादपे वरे गताधिसंतपे सदागमोपदेशनं, तदेव तीर्थमुद्दिशन भवालिमोक्षमादिशन् सदा सुकृतसारको जिनेश एव नापरः // 4 // मज शास्त्रालि भज शास्त्रालिं शास्त्रालिं. भज' शुद्धमते.! , जनपतिगदितां गणपतिविततां मुनिजनमान्यतरां विमलाम् / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust