________________ 7i जैनगीता। मत्वेत्यसौ परिहरेद् ग्रहधारणाह, सर्व नदत्त ,( ह्यदत्त ) मपि वस्तु समस्तयोगैः // 6 // भूतादिनिद्रवमुखं विजहात्यसत्यं, संसारसागरमनन्तमुपेत्यमुष्मात् / पापप्रधानमखिलाऽऽगमनिन्द्यरूपं, नैवाद्रियेत शिवसौख्यमनाः कदापि सर्वाण्यघानि कणशोऽपहृतौ पटूनि, वार्याणि सम्प्रतिकराणि विशुद्धमन्ति / मुक्त्वैकमाग उदितं जनुषां विनाशे, तत्याज तत् परवधं त्रिविधं त्रिधा यः (ऽसौ) |8|| हिंसादीनां यमोऽसौ प्रतिकलमुदयी मातृष्वष्टासु चेत् स्याद्रक्ष्यास्ता नैव यामाशनकमनवता ध्यानपाठौ भवेताम् / नैवैवं सर्वसङ्घ प्रतिदिनमविता सुष्टुवानुवर्ती, . यावज्जीवं च शुद्धं प्रतिवहति महद्याममाप्तुं शिवं सः.. // 9 // सुकराणि भवेयुरिमानि जने, श्रुतवाक्यमनुश्रयतां सुधिया / व्रतपट्कतया गदितानि बुधै-यदि रक्षति जीव (भिदा षट्कं) चयान् सततम् // 10 निखिलवतिनां हृदयं ह्यवने-ऽसुमता प्रतिपत्तिरिहाप्तिमताम् / नहि शक्यत एतदनक्षजये, विरतो यतिसार्थ इतोऽक्षजये // 11 // न बुधोऽलसयोगयुतोऽध्ययनी, न विरुद्धसमागमहेतुधरः / श्रमणत्वमनुत्तममायतते, तदकल्प्यमसौ विजहाति सदा // 12 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust