________________ जैनगीता। स्वयं साधनं चेन्न शुद्धं दधाति, परो हिंसनादि प्रकुर्यात्तदर्थम् / / स्वकीयेतरे नास्ति भेदो वधे(धं)त-दगार्यासनादि व्रती त्यक्तुमर्हः।।१३।। भवेद्यद् व्रतानां मुनीनां च यत्ना-द्धृतं वस्त्रपात्राद्यनुग्राहकं तत् / धरेन्नैव हिंसापरीहारहेतोः, पल्यङ्कमुख्यं मुनिराट् तु किञ्चित् / / 14 / / वह्वेर्यथाऽगारवतां तु सेवा, सुखाप्तये तद्वदगारिनिश्रा / मत्वेति नैवावसनं गृहेषु, चरेद्यतिर्मोक्षसुखाप्तिहृत्सु // 15 // साधनं यदपि नाप्यते बहिः, पापकृन्मुनिपर्दकचारिते / अन्तरं करोति पापसङ्गमं, साधनं त्यजेत्तनोर्विदन् वृषम् // 16 // विपाकतोऽघसन्ततेर्निवर्त्ततेऽघसाधनात, शरीरसंस्क्रियात एनसां पदं विनिश्चयात् / विदन्निति स्वकर्मभेदमर्मवेदनो मुनिरकर्म सन्दधाति सत्सु संयमाध्वयापनम् // 17 // एवंविधान् मुनिवरानशनाम्बुवस्त्रपात्रोषधादि विधिना प्रतिलम्भयन् सः / .. देवार्चनादिनिरतः परमेष्ठिसक्तः, स्याज्जैन एव करुणानिधिराप्तमार्गः // 18 // ... .इति पञ्चमोऽध्यायः / / षष्ठोऽध्यायः / (दर्शनाधिकारः) महिता देवा ध्याताः सिद्धा यतीश उपासिता, विहिताः सेवा वाचकपदयोर्मुनीशपदोचिताः। . P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust