________________ जैनगीता 3 पञ्चमोऽध्यायः / (साध्वधिकारः) वन्देत साधुगणमुत्तमसत्त्ववन्तं, तातं प्रसूं सहजनि ललनां तनूजम् / राष्ट्र सुराज्यममितोत्सववृद्धिहेतुं ज्ञातेयमर्थनिचयं च जहौ स धीरः // भ्रान्तिं भवेषु जननान्तकभारभुग्नां, निःसत्त्वसारशरणामनिवार्यरूपाम् / ज्ञात्वा शरण्यमरुहत्कथितं सुधर्म, पापं समग्रमधमं परिहत्य दधे . पा२।। सम्यक्त्वबोधचरणानि शिवैकहेतोः, सावद्ययोगविरमेण युतानि धृत्वा / सावद्ययोगविरतात् सुगुरोश्च याव- ज्जीवं बभार नवधा शिवसाधनेच्छुः // 3 // अर्थोपार्जनमुज्झितं विरतितो, मूर्छापदात सोऽस्तिमाँस्त्यक्तः पापपरायणैकमहितो रौद्रार्त्तचित्तोद्धरः / जायन्तेऽघचया, विलीनमयते धर्मस्य चेस्यात्कणः, सङ्गात्तत्प्रविबुद्धय शान्तमनसाऽसङ्गोऽभवज्ज्ञानवान् // 4 // सम्मूच्छिमाऽमितमनुष्यविनाशहेतुः, पञ्चाक्षगर्भजनरा नवलक्षमानाः / हन्यन्त उद्यतनरैमिथुनेऽत्र तस्मात् , तत्याज योषिदयनं सकलाघशान्त्यै ... // 5 // ग्राणा धनं व्यवहृतौ नियतोद्यमानां, .... . सोढुं न शक्यमपहारहृतं तु तद्धि / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust