________________ / जैनगीता। ईर्याद्या नहि साधुतामनुसृता निर्वस्त्रकाणां यतो, रात्र्यादौ लघुनीतयेऽपि निरयन् कुर्यात्कथं रक्षणम् / जीवानां करिपादवद्धि दधतः श्वेताम्बरा आयतं, ... पादोन्मार्जनमस्ति सम्भवपदं जीवावनं तिश्यपि 150 // सूक्ष्माणां नहि रक्षणं भवभृतां वस्त्रं विना वादिनो, '. नैव स्याद् भ्रमरोपमं हि गमनं ग्रासादिहेतोर्यतेः / निष्पात्रस्य कथं ग्रहोज्झिती परं स्यात्तां विनोपक्रियां . हा! हा ! निश्चितनष्ठमूलचरणोऽसौ नग्नकायो मुनिः // 51 // यथा जिनानां वरतीर्थनाम्नो, भोगे भवेदिन्द्रमुखैः कृतायाः / सत्प्रातिहार्यादिवरार्चनाया, अरागभावात्त न दोषलेशः // 52 / / नह्यर्चने तत्प्रतिविम्बराशे-विचित्रवस्त्राभरणैर्बुधानाम् / / नो चेदसौ तर्हि कथं विचक्षु-र्वस्वाञ्चलोरीक्रियतेऽहंदर्चा // 53 // विधेश्चित्राधारा परिणतिमिता विश्वविषये, . . यदेकं निर्माय प्रदमशुभकस्याऽस्ति न विरतिः / स्त्रिया लुप्त्वा शाटी परिणतिमितोऽसौ जिनपतेविलोपायाऽक्ष्णोऽस्तु शतमुखनिपातो विधिकृतः // 54 / / दिग्वस्त्रैर्ललनागणैस्तदनुगैः शोच्य द्वयं स्वान्तरे, :: सम्यक्त्वं कथमाप्यतेऽधिगमिकं सूत्रं च योग्यं कथम् / र चेत् साध्व्या, नहि सा पुनः श्रुतमृते साधोः प्रसङ्गे तया, वृत्तिभङ्ग उदीयते तत इतं चीरेण नाशं मतम् // 55| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust