________________ 106 जैनगीता। विम्बानां नव्यजीर्णप्रकरणनिपुणा उद्यमं सन्दधन्ते, सधे जैनेशनम्ये बहुविधविनयं सन्नयन्ते सुधर्माः (बोधाः) // 36 // सर्वोऽप्येष प्रभावो मुनिवरसजुषः सङ्घसार्थस्य तीव्रो, भेर्युक्तश्चतुर्भिः श्रमणमुखगतैः पुस्तकाधारजीवैः / व्याख्यानं सक्रियायुक् प्रवितरणचणैः शासनस्तम्भरूपैर्युक्तस्य पुस्तभक्त्या त्रिकरणविधया संश्रितस्यैव नूनम् // 30 // शास्त्राणां विहिता वरा सुरचना पुस्तेषु विज्ञोत्तमैः, सा चेदाधमियति तर्हि जिनपस्याऽभूत्परं बाधितम् / सर्वं यद्धरति प्रकृष्टमनिशं सर्वत्रगं सद्यशः, सूत्राणां मितबाधने परममुष्मिन् धर्मवार्ता वृथा // 38 // ज्ञानं सर्वमतानुगैरभिमतं धर्माहतौ सारभृज, जैना अप्यभिमन्वते परमिदं तत्त्वाशया नो परम् / जैना वच्छिवसाधनं परतरं मन्वन्त उद्धारकं, ज्ञानं सक्रियया युतं न विकलं चैकं ह्यपीप्स्यप्रदम् // 39 // रोगी नैव निदानरूपभिषजां रोगस्य बोधावेदल्पेनापि गदेन मुक्ततनुकश्चेन्नागदानां क्रिया / वार्धस्तारकतां श्रितोऽपि पटुधीश्वेत्तारणे नोद्यतः , ... पारं नो समियर्त्यसौ नदनदीष्वेवं क्रियाऽऽवश्यिकी // 40 // युक्तोऽपि क्रियया विचित्रविधया रत्नाकरेष्वागतश्वेन्नासाववबुध्यतेऽत्र पतितं सारं गतार्घ च वा / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradlak Trust