________________ // 146 // P अन्ये हि धर्मा अग्निभृगुपातादिकमज्ञानतप उपदिशन्तोऽकामनिर्जरामार्गमादिशन्ति लम्भ्यन्ति च | आगमों- ततोऽल्पर्धिदेवत्वम् , परं सर्वकर्मक्षयसमर्थद्वादशविधमनशनादितपस्तु केवलिप्रज्ञप्त एव धर्म पञ्चसूत्र उपदिशति / ततः सर्वकर्मवनस्य दाहं सकामरूपमपेक्ष्य द्वारककृति सुष्ठुक्तं-'कर्मवनविभावसुरिति / ये ना वार्तिकम् विशेषगुणोच्छेदरूपां वदन्ति मुक्ति, ये च नैरात्म्यवादेनेशते शुन्यरूपा तां सत्चनिवृत्तेः स्नेहनिवृत्तिरिति ISI सन्दोहे वावदूकाः सुगतास्तेऽपि स्वधर्म कर्मवनविभावसुतयाऽऽमनन्त्येवेति केवलिप्रज्ञप्तस्य अवितथस्यापि विशेषणायाह'साधकः सिद्धिभावस्येति / ननु जैनैरपि 'कृत्स्नकर्मविप्रयोगो मोक्ष' इति 'आत्यन्तिको वियोगस्तु देहादेर्मोक्ष इष्यते' इत्यादिभिर्वचोभिः कर्मनाशमात्रस्य मोक्षस्य सम्मतत्वात् कर्मवनवि| भावसुरित्येतावदस्तु, न पृथक् साधकः सिद्धिभावस्येति विशिष्टतेति चेत् / शृणु-आत्मनः | स्वस्वरूपेऽवस्थानं मुक्तिरिति सत्यपि मोक्षलक्षणे आत्मार्थाय कृत्स्नकर्मेत्याधुच्यते / पुरुषप्रयत्नप्राप्यो | हि कृत्स्नकर्मक्षयः, क्षीणेष्वशेषेषु च कर्मसु अभ्रपटलविलयनेन चन्द्रमसश्चन्द्रिकाप्रसारवदात्मस्वरूपं तु | निराबाधमवतिष्ठत एव, आवार्या (बरणा)भावे निरावरणस्वरूपस्यावस्थाननियमात् / आत्मा ह्यरूपिद्रव्यं, न चारूपिद्रव्यस्योत्पादो वा विनाशो वा। उच्यते-'नासतो जायते भावो नाभावो जायते सत' इति / न चात्मद्रव्यस्य नाशायोपदेशः। न च कोऽपि तत्र यत्नो न च सम्भव इति नात्मनो मुक्ताभावो नाशो वा, ततो योग्यमुक्तं 'साधकः सिद्धिभावस्येति / तदनन्तरमूर्ध्व गच्छत्यालोकान्ता'दित्युक्तेः 'तत्थ गंतूण सिज्झई' त्युक्तेश्चेषत्माग्भारशिलाया उपरि लोकाग्रमधिकृत्यावस्थानमेव, तनिवर्तकश्च केवलिप्रज्ञप्तो धर्म एव / किञ्च-'औपशमिकादिभव्यत्वामावाच्चान्यत्र सम्यक्त्वकेवलज्ञानदर्शनसिद्धत्वेभ्य' | इत्यादिप्रवचनोक्तमेव स्वरूपेण सिद्धत्वं, परं तत् सर्वेषु जीवेषु स्वस्वरूपेणास्त्येव, न तूत्पाद्यम् / | आविर्भावोऽपि न यत्नसाध्यः, किन्तु प्रतिबन्धककर्मक्षयसाध्य इति सम्यगेवोक्तं-'कृत्स्नेत्यादि / // 14 // MPP.AC. Gunratnasuri M.S.. Jun Gun Aaradhak Trust In