________________ 64 ५-प्रत्याख्यानविधि-पञ्चाशकम गाथा-१५-१६ __अतः प्रत्याख्यानाद् अप्रमादो जायत आहारपरिभोगविषयः / अत्र वस्तुन्यप्रमादाख्ये [इह 'अस्मिन् प्रत्याख्यानस्याप्रमादजननलक्षणेऽर्थे' - अटी.] अनुभवः प्रायः स्वसंवेदनमत्र प्रमाणम् / स चाप्रमादः कीदृगित्याह-विरतिस्मरणप्रधानः / प्रत्याख्यानाद्धि भवन्नप्रमादो विरतिं स्मारयतिअतस्तत्प्रधानशुद्धप्रवृत्ति-समृद्धिफलः / शुद्धा चासौ प्रमादपरिहारेण, प्रवृत्तिश्च क्रिया च, [तस्याः समृद्धिः] तत्समृद्धिः फलमस्य अप्रमादस्येति तथोच्यते // 14 // ननु चेदमद्धाप्रत्याख्यानं प्रतिनियतकालप्रतिनियताहारविषयत्वेन विधीयमानं कथं सर्वसावद्ययोगविरतिरूपं सामायिकं न बाधते? तस्य सर्वकालं सर्वद्रव्यविषयत्वादित्याशङ्क्याह न य सामाइयमेयं, बाहइ भेयग्गहणे वि सव्वत्थ / समभावपवित्तिणिवित्तिभावओ ठाणगमणं च // 209 // 5/15 न च सामायिकं सर्वसामायिकम् एतत्प्रत्याख्यानमाहारविषयं बाधते / भेदग्रहणेऽपि विशेषग्रहणेऽपि त्रिविधादिगते, सर्वत्र सर्वस्मिन्, समभावप्रवृत्तिनिवृत्तिभावतो यतः समभावव्यवस्थित एव प्रवृत्तिनिवृत्ती सर्ववस्तुषु करोति / तद्भावतः स्वभावात् स्थानगमनभावात् / स्थानं हि गमनपरिहारेणावस्थितं गमनं च स्थानपरिहारेण / तद्यथाक्रियमाणं समभावं न बाधते, येन यत्करोति तत्र रागो, यतो निवर्तते तत्र द्वेषः, एवं रागद्वेषौ समभावबाधकौ न भवतः / प्रवृत्तिनिवृत्त्यौ (निवृत्त्ययोः) शास्त्रोक्तत्वेन संपादनात्, न ह्यसौ स्वतन्त्रः किञ्चित्करोति परिहरति वा / केवलं यद्यथा शास्त्रे प्रवृत्तिविषयत्वेन निवृत्तिविषयत्वेन वा देशकालाद[द्य]पेक्षया प्रतिपाद्यते तद्विधत्ते, तेनास्य समभावबाधा न क्वचिदुपजायते // 15 / / (1. व. अटी.) ननु चाकारा अपवादा विशेषास्त इमे आहारप्रत्याख्यान उक्ताः, सामायिके नोक्ता तत्कथमेतदित्याशङ्कमान आह - सामइए आगारा, महल्लतरगे वि नेह पण्णत्ता / भणिया अप्पतरे वि हु, नवकाराइम्मि तुच्छमिणं // 210 // 5/16 सामायिके सर्वविरतिरूपे आकाराः प्रागुक्ताः महत्तरकेऽपि द्रव्यकालविषयापेक्षया, नेह प्रज्ञप्ता भणिताऽल्पतरेऽपि द्रव्यकालापेक्षयैव / 'हु' शब्दो वाक्यालङ्कारे / नमस्कारादौ नमस्कारसहितादौ / तुच्छमिदम् असारमिदम्, युक्तिरहितत्वात् / तथाहि-महाविषय एव सर्वसामायिके आकारा वक्तुं युज्यन्ते, न पुनरल्पतरविषये नमस्कारादिप्रत्याख्याने, तत्कथं विपरीतत्वान्न तुच्छमिदम् / / 16 / /