________________ गाथा-१२-१४ ५-प्रत्याख्यानविधि-पञ्चाशकम अद्रवपिशिते घनमांसेऽद्रवघृतगुडे चोद्धारयोग्ये नवाकारास्तेषामुक्ते परिधे सहितत्वात्, शेष द्रवाणां च शेषाणामेव पूर्वोक्तानां स्वरूपेण द्रवद्रव्याणां चान्येषां मद्यादीनाम् अष्टैवाकारा उक्षिप्तविवेकाभावात् // 11 // किं पुनराकाराः प्रत्याख्यानेऽभिधीयन्ते इत्याह - वयभंगो गुरुदोसो, थेवस्स वि पालणा गुणकरी उ। गुरुलाघवं च णेयं, धम्मम्मि अओ उ आगारा // 206 // 5/12 व्रतं शास्रतो नियमः तस्य भङ्गो विनाशोऽन्यथाकरणम् / गुरुर्दोषोऽस्मिन्निति गुरुदोषो वर्तते / व्रतविनाशो हि यतो महादोषो वर्तते / स्तोकस्यापि व्रतस्य पालना संरक्षणं गुणकरणशीला गुणकारी तु पालनैव गुणकारिणी, गुरुलाघवं च ज्ञेयं धर्मे गुणानां गौरवं वृद्धिर्दोषाणां च लाघवमल्पत्वम्, यथा संपद्यते धर्मविषये तथा ज्ञातव्यम् एकान्तग्रहणस्यानेकसत्त्वापकारजनकत्वेनासुन्दरत्वात् विशिष्टधर्मकार्यक्षतिप्रसङ्गात्। 'ग्लानादि-साधर्मिककार्यकरण हेतुष्वाकाराः।' अतो हेतोराकाराः शास्त्रे प्रतिपादिताः / प्रत्याख्यानाऽपवादा हि शास्त्र एवमर्थमुक्ताः, यथा प्रत्याख्यानभङ्गो न भवति / सर्वोपकारफला हि विदुषां प्रवृत्तिः / सा चैवमाराधिता भवति / न हि क्रियामात्रपरिपालनमेव तथाविधागमार्थगर्भविकलं विदुषां परितोषाय, तस्मात्सर्वानुग्रहार्थमिमे समाश्रियन्ते // 12 // ननु च यतेः सर्वसावद्ययोगविरतिरूपभावसामायिकावस्थितस्य किमन्येनाहारप्रत्याख्यानेन प्रतिनियत-कालद्रव्यविषयभाविना ? नहि स कश्चित् गुणोऽस्ति यस्तदन्तर्वर्ती न सञ्जायत इत्याशङ्क्याह सामइए वि हु सावज्जचागरूवे उ गुणकरं एयं / अपमायवुड्डिजणगत्तणेण आणाउ विण्णेयं // 207 // 5/13 सामायिकेऽपि, हु सावद्यत्यागरूपे तु गुणकरमेतत् / आस्तां तावत् सम्यग्दृष्टिदेशविरतिस्थानयोः, सर्वविरतिसामायिकेऽप्येतद् गुणकरमेव, अप्रमादवृद्धिजनकत्वेन परिस्फुदैवाप्रमादवृद्धिर्यतेरप्याहारप्रत्याख्यानसेवने यथाकालमुपलभ्यते, किं पुनर्गृहस्थस्य सर्वारम्भाऽऽहारप्रवृत्तस्य / तस्य हि यावत्येव विषये प्रत्याख्यानं तावत्येवाप्रमादवृद्धिः प्रत्याख्यानमन्तरेण सर्वत्र प्रमादात् प्रवृत्तेः, आज्ञातो विज्ञेयं गुणकरमेव // 13 // एत्तो य अप्पमाओ, जायइ एत्थमिह अणुहवो पायं / विरतीसरणपहाणे, सुद्धपवित्तीसमिद्धिफलो // 208 // 5/14