SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 62 ५-प्रत्याख्यानविधि-पञ्चाशकम् गाथा-८-११ __ [1. ज्येष्ठक - आचार्यादिसम्बन्धी वृद्धभ्राता, आदिशब्दात्तन्मातुल-पितृ-पितृव्यादिग्रहःअटी.] 'आकारेषु' (5.4 गाथायां)इत्युक्तम् / तद्विषयविभागार्थमाह - दो चेव नमोक्कारे, आगारा छच्च पोरिसीए उ / सत्तेव य पुरिमड्ढे, एक्कासणगम्मि अद्वैव // 202 // 5/8 द्वावेव नमस्कारे नमस्कारसहिते, आकारा अपवादा विशेषा इति यावत् / षडेव पौरुष्यां तु षडेव च पौरुषीप्रत्याख्याने / सप्तैव च पूर्वार्धे प्रहरद्वयलक्षणे पूर्वाह्न इत्यर्थः, आकारा भवन्ति / एकासनके सकृदुपविष्टपुताचलनभोजनरूपे, अरक्तद्विष्टभोजनस्वरूपे वा, एकाशने समयप्रसिद्ध एकभक्ते वा लोक-लोकोत्तरप्रसिद्ध / अष्टैवाकारा आगमोक्ताः / / 8 / / सत्तेगट्ठाणस्स उ, अद्वेवायंबिलस्स आगारा / पंच अभत्तट्ठस्स उ, छप्पाणे चरिमे चत्तारि // 203 // 5/9 सप्तैकस्थानस्य तु आकुञ्च-प्रसारणवर्जाः / अष्टवायामाम्लस्याकाराः उष्णोदका-ऽवश्रावणसौवीरसहितौदनाद्यलवणान्नभोजिनः समयप्रसिद्धा एव / पञ्च भक्तार्थेन तु, न विद्यते भक्तार्थो भक्ताभिलाषोऽस्येति अभक्तार्थ उपोषितस्य, षट् पाने पानाहारे, विधिरूपाः अच्छबहललेपाऽलेपससिक्थऽसिक्थरूपाः / चरमे दिवसभवचरमरूपे चत्वार आकाराः शास्त्रप्रसिद्धाः // 9 // पंच चउरो अभिग्गहे, निव्वीए अट्ठ नव य आगारा।। अप्पाउरणे पंच उ, हवंति सेसेसु चत्तारि // 204 // 5/10 पञ्च चत्वारश्चाभिग्रहे निजविवक्षासम्भवे सर्वप्रत्याख्यानगते नाहारमात्रवर्तिन्येव क्वचित् पञ्च क्वचिच्चत्वारः, प्रवचनप्रशंसार्थं पञ्चेष्यन्ते / निर्विकृतिके विकृतिपरिभोगरहितप्रत्याख्याने समयप्रसिद्धे / अष्ट नव च आकारा उत्क्षिप्तविवेकसंभवासंभवाभ्यां सिद्धान्तोक्ताः दृष्टव्याः / अप्रावरणे पञ्च तु भवन्ति, शेषेषु अभिग्रहेषु चत्वार आकाराः // 10 // नवणीओगाहिमए, अद्दवदहिपिसियघयगुडे चेव / नव आगारा तेसिं, सेसदवाणं च अद्वैव // 205 // 5/11 नवनीतो म्रक्षणम्, अवगाहेन [= स्नेहबोलनेन-अटी.] निवृत्तमवगाहिमं 'भावप्रत्ययान्तादिम' इति वचनाच्छब्दसिद्धिः कुट्टिमादीव, सत्स्नेहावगाहनिष्पन्नं पक्वान्नम् / नवनीतश्चावगाहिमं च नवनीतावगाहिमं तस्मिन्,अद्रवरूपे अद्रवदधिपिशितघृतगुडे चैव अद्रवदघ्नि पिण्डरूपे,
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy